Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 17
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
    44

    ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति। आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥

    स्वर सहित पद पाठ

    ये । अ॒र्वाङ् । मध्ये॑ । उ॒त । वा॒ । पु॒रा॒णम् । वेद॑म् । वि॒द्वांस॑म् । अ॒भित॑: । वद॑न्ति । आ॒दि॒त्यम् । ए॒व । ते । परि॑ । व॒द॒न्ति॒ । सर्वे॑ । अ॒ग्निम् । द्वि॒तीय॑म् । त्रि॒ऽवृत॑म् । च॒ । हं॒सम् ॥८.१७॥

    स्वर रहित मन्त्र

    ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति। आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥

    स्वर रहित पद पाठ

    ये । अर्वाङ् । मध्ये । उत । वा । पुराणम् । वेदम् । विद्वांसम् । अभित: । वदन्ति । आदित्यम् । एव । ते । परि । वदन्ति । सर्वे । अग्निम् । द्वितीयम् । त्रिऽवृतम् । च । हंसम् ॥८.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 17
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा और जीवात्मा के स्वरूप का उपदेश।

    पदार्थ

    (ये) जो [विद्वान्] (अर्वाङ्) अवर [इस काल वा लोक] में, (मध्ये) मध्य में (उत वा) अथवा (पुराणम्) पुराने काल में [वर्तमान] (वेदम्) वेद के (विद्वांसम्) जाननेवाले [परमात्मा] को (अभितः) सब ओर से (वदन्ति) बखानते हैं, (ते सर्वे) वे सब [विद्वान्, उस] (आदित्यम्) खण्डनरहित [परमात्मा] को (एव) ही (अग्निम्) अग्नि [प्रकाशस्वरूप] (च) और (द्वितीयम्) दूसरा [दूसरे नामवाला] (त्रिवृतम्) तीनों [कर्म, उपासना और ज्ञान] को स्वीकार करनेवाला (हंसम्) हंस [सर्वव्यापक वा सर्वज्ञानी] (परि) निरन्तर (वदन्ति) बताते हैं ॥१७॥

    भावार्थ

    जो परमात्मा तीनों काल तीनों लोक में वर्तमान और सत्यज्ञानी है, उसको विवेकी जन वेदविहित कर्म, उपासना और ज्ञान से प्राप्त होकर मुक्तिसुख भोगते हैं ॥१७॥

    टिप्पणी

    १७−(ये) विद्वांसः (अर्वाङ्) अवरे देशे काले वा (मध्ये) (उत वा) अथवा (पुराणम्) अ० १०।७।२६। पुरातनकाले (वेदम्) अ० ७।२८।१। परमेश्वरज्ञानम् (विद्वांसम्) विदेः शतुर्वसुः। पा० ७।१।३। वेत्तेः शतुर्वसुरादेशो वा। विदन्तं जानन्तं परमेश्वरम् (अभितः) सर्वतः (वदन्ति) कथयन्ति (आदित्यम्) अ० १।९।१। दो अवखण्डने-क्तिन्। दितिः खण्डः, अदितिः अखण्डः। दित्यदित्यादित्य०। पा० ४।१।८५। अदिति-ण्य प्रत्ययो भवार्थे। खण्डरहितं परमेश्वरम् (एव) (ते) (विद्वांसः) (परि) सर्वतः (वदन्ति) (सर्वे) (अग्निम्) प्रकाशस्वरूपम् (द्वितीयम्) द्वितीयनाम्ना प्रसिद्धम् (त्रिवृतम्) त्रि+वृञ् वरणे-क्विप् तुक् च। त्रीणि कर्मोपासनाज्ञानानि वृणोति स्वीकरोतीति तम् (च) (हंसम्) अ० ६।१२।१। हन हिंसागत्योः-स। हन्ति गच्छतीति हंसः। सर्वव्यापकं परमात्मानम् ॥

    इंग्लिश (1)

    Subject

    Jyeshtha Brahma

    Meaning

    Those who all round speak of the direct, present, middling and the ancient and external omniscient Brahma as One, Agni, the light of life, or second as Purusha and Prakrti, or third as Purusha, Prakrti and Jivatma, or as Hansa, the omnipresent spirit of the universe, all speak of the same one Aditya, eternal, imperishable Brahma.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top