Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 2
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - अनुष्टुब्गर्भा पञ्चपदा विराड्जगती सूक्तम् - रुद्र सूक्त
    44

    शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑। मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥

    स्वर सहित पद पाठ

    शुने॑ । क्रो॒ष्ट्रे । मा । शरी॑राणि । कर्त॑म । अ॒लिक्ल॑वेभ्य: । गृध्रे॑भ्य: । ये । चे॒ । कृ॒ष्णा: । अ॒वि॒ष्यव॑: । मक्षि॑का: । ते॒ । प॒शु॒ऽप॒ते॒ । वयां॑सि । ते॒ । वि॒ऽघ॒से । मा । वि॒द॒न्त॒ ॥२.२॥

    स्वर रहित मन्त्र

    शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः। मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥

    स्वर रहित पद पाठ

    शुने । क्रोष्ट्रे । मा । शरीराणि । कर्तम । अलिक्लवेभ्य: । गृध्रेभ्य: । ये । चे । कृष्णा: । अविष्यव: । मक्षिका: । ते । पशुऽपते । वयांसि । ते । विऽघसे । मा । विदन्त ॥२.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से उन्नति का उपदेश।

    पदार्थ

    (शुने) कुत्ते के लिये, (क्रोष्ट्रे) गीदड़ के लिये, (अलिक्लवेभ्यः) अपने बल से भय देनेवाले [श्येन, चील आदियों] के लिये, (गृध्रेभ्यः) खाऊ [गिद्ध आदियों] के लिये (च) और (ये) जो (अविष्यवः) हिंसाकारी (कृष्णाः) कौवे हैं [उनके लिये] (शरीराणि) [हमारे] शरीरों को (मा कर्तम्) तुम दोनों मत करो। (पशुपते) हे दृष्टिवाले [जीवों] के रक्षक ! (ते) तेरी [उत्पन्न] (मक्षिकाः) मक्खियाँ और (ते) तेरे [उत्पन्न] (वयांसि) पक्षी (विघसे) भोजन पर (मा विदन्त) [हमें] न प्राप्त होवें ॥२॥

    भावार्थ

    मनुष्य सावधान रहें कि कुत्ते आदि उन्हें न सतावें और न मक्खी आदि भोजन को बिगाड़ें ॥२॥

    टिप्पणी

    २−(शुने) कुक्कुराय (क्रोष्ट्रे) शृगालाय (शरीराणि) अस्माकं देहान् (मा कर्तम्) मा कुरुतम् (अलिक्लवेभ्यः) सर्वधातुभ्य इन्। उ० ४।११८। अल भूषणपर्याप्तिशक्तिवारणेषु-इन्+क्लव भये-अच्। अलिना शक्त्या बलेन भयानकाः। श्येनादयस्तेभ्यः (गृध्रेभ्यः) मांसाहारिभ्यः खगविशेषेभ्यः (ये) (च) (कृष्णाः) कृष्णवर्णा वायसाः (अविष्यवः) अ० ३।२६।२। अर्चिशुचि....इसिः। उ० २।१०८। अव रक्षणहिंसादिषु-इसि। छन्दसि परेच्छायामपि। वा० पा० ३।१।८। इति क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। परहिंसेच्छवः (मक्षिकाः) हनिमशिभ्यां सिकन्। उ० ४।१५४। मश ध्वनौ कोपे च-सिकन्। कीटभेदाः (ते) तव, उत्पन्ना इति शेषः (पशुपते) हे दृष्टिमतां पालक (वयांसि) पक्षिणः (ते) तव (विघसे) उपसर्गेऽदः। पा० ३।३।५९। अद भक्षणे-अप्। घञपोश्च। पा० २।३।३८। घस्लृ आदेशः। अन्ने। भोजने (मा विदन्त) विद्लृ लाभे माङि लुङि रूपम्। न लभन्ताम्, अस्मान् इति शेषः ॥

    इंग्लिश (1)

    Subject

    Rudra

    Meaning

    Let our bodies be not disposed to dogs, jackals, clamorous birds, vultures or black crows. O lord of living beings, let not your flies or insects or birds get on to feed upon our bodies. (Let no unnatural death befall us).

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top