अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 14/ मन्त्र 1
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
67
निः॑सा॒लां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्व॑म्। सर्वा॒श्चण्ड॑स्य न॒प्त्यो॑ ना॒शया॑मः स॒दान्वाः॑ ॥
स्वर सहित पद पाठनि॒:ऽसा॒लाम् । धृ॒ष्णुम्। धि॒षण॑म् । ए॒क॒ऽवा॒द्याम् । जि॒घ॒त्ऽस्व᳡म् । सर्वा॑: । चण्ड॑स्य । न॒प्त्य᳡: । ना॒शया॑म: । स॒दान्वा॑: ॥१४.१॥
स्वर रहित मन्त्र
निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम्। सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥
स्वर रहित पद पाठनि:ऽसालाम् । धृष्णुम्। धिषणम् । एकऽवाद्याम् । जिघत्ऽस्वम् । सर्वा: । चण्डस्य । नप्त्य: । नाशयाम: । सदान्वा: ॥१४.१॥
भाष्य भाग
हिन्दी (1)
विषय
निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।
पदार्थ
(निः सालाम्) विना साला वा घरवाली, (धृष्णुम्) भयानक रूपवाली, (एकवाद्याम्) [दीनता का] एक वचन बोलनेवाली, (धिषणम्) बोध वा उत्तम वाणी को (जिघत्स्वम्) खा लेनेवाली, (चण्डस्य) क्रोध की (सर्वाः) इन सब (नप्त्यः= नप्त्रीः) सन्तानों, (सदान्वाः) सदा चिल्लानेवाली यद्वा, दानवों, दुष्कर्मियों के साथ रहनेवाली [निर्धनता की पीड़ाओं] को (नाशयामः) हम मिटा देवें ॥१॥
भावार्थ
निर्धनता के कारण मनुष्य घर से निकल जाता, कुरूप हो जाता, दीन वचन बोलता और मतिभ्रष्ट हो जाता है और निर्धनता की पीड़ाएँ क्रोध अर्थात् काम, क्रोध, लोभ, मोह आदि दुष्टताओं से उत्पन्न होती हैं। मनुष्य को चाहिये कि दूरदर्शी होकर पुरुषार्थ से धन प्राप्त करके निर्धनता को न आने दे और सदा सुखी रहे ॥१॥ ऋग्वेद म० १०। सू० १५५। म० १। में ऐसा वर्णन है। अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे। शि॒रिम्बि॑ठस्य॒ सत्त्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥१॥ (अरायि) हे अदानशील [कंजूसिनि] ! (काणे) हे कानी ! (विकटे) हे लंगड़ी ! (सदान्वे=सदानोनुवे शब्दकारिके) सदा चिल्लानेवाली ! (गिरिम्) पहाड़ को (गच्छ) चली जा ! (शिरिम्बिठस्य) मेघ के (तेभिः) उन (सत्त्वभिः) जलों से (त्वा) तुझे (चातयामसि) हम मिटाये देते हैं ॥ इस ऋग्वेदमन्त्र की व्याख्या निरु० ६।३०। में है। उसके और निरुक्तटीकाकार देवराज यज्वा के आधार पर यहाँ अर्थ किया है ॥
टिप्पणी
१–निः सालाम्। सल गतौ–घञ्। सालः प्राकारोऽस्त्यस्याः सा साला गृहम्। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति अच्। टाप्। निर्गता सालायास्ताम्। निर्गृहाम्। धृष्णुम्। स्त्री०। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति धृषि क्रोधे हिंसे, शक्तिबन्धे–क्नु। धर्षणशीलां भयस्य जनयित्रीम्। धिषणम्। धृषेर्धिष च सञ्ज्ञायाम्। उ० २।८२। इति ञिधृषा प्रागल्भ्ये–क्यु, धिषादेशश्च। यद्वा, धिष शब्दे–क्यु, धिषणा वाङ्नाम–निघ० १।११। बुद्धिः, कोषे च। बोधं वाचं वा। (जिघत्स्वम्) इत्यस्य कर्म। एकवाद्याम्। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति वद वाचि ण्यत्। एकम् एकप्रकारमेव वाद्यं दीनतारूपं वचनं यस्याः सा। ताम् अलक्ष्मीम्। जिघत्स्वम्। लुङ्सनोर्घस्लृ। पा० २।४।३७। इति अद भक्षणे+सन्–घस्लादेशः। ततः। सनाशंसभिक्ष उः। पा० ३।२।१६८। इति उः, स्त्रियाम् ऊङ् वा। अत्तुमिच्छुम्। सर्वाः। निखिलाः। चण्डस्य। नपुंसकलिङ्गम्। चडि कोपे–पचाद्यच्। यद्वा। ञमन्ताड् डः। उ० १।१११४। इति चण हिंसे–डः। डस्य न इत्वम्। कोपस्य। क्रोधस्य। नप्त्यः। न पतन्ति पितरो येनेति नप्ता। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति न+पत अधोगतौ–तृन्। ऋन्नेभ्यो ङीप् पा० ४।१।५। इति ङीप्। छन्दसि र लोपो जश्त्वं च। नप्त्रीः। अपत्यभूताः। नाशयामः। हन्मः। सदान्वाः। नौतेः शब्दकर्मणो यङ्लुगन्तात्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पचाद्यच्। न धातुलोप आर्धधातुके। पा० १।१।४। इति गुणप्रतिषेधे उवङ्स्थाने छान्दसो यण् आदेशः, टाप् च। सदान्वे सदानोनुवे शब्दकारिके–निरु० ६।३०। दुर्भिक्षाधिदेवतोच्यते, कालकर्णा वा अलक्ष्मीः–इति तत्र टीकायां देवराजयज्वा। सदानोनुवाः। सर्वदा नोनूयमानाः। शब्दायमानाः सर्वप्रकारा दरिद्रतादिविपत्तीः यद्वा। स+दानवाः। केशाद् वोऽन्यतरस्याम्। पा० ५।२।१०९। अत्र वार्त्तिकम्। अन्येभ्योऽपि दृश्यते। इति व प्रत्ययो मत्वर्थे। अकारलोपः। दानवैश्छेदनशीलैः सह वर्तमानाः ॥
इंग्लिश (1)
Subject
We Counter Negativities
Meaning
The vagabond, the bully, the obstinate, the incorrigible, the ogre, entire demonic progeny of wrath, violence and terror, all these we face and make them disappear from society.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१–निः सालाम्। सल गतौ–घञ्। सालः प्राकारोऽस्त्यस्याः सा साला गृहम्। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति अच्। टाप्। निर्गता सालायास्ताम्। निर्गृहाम्। धृष्णुम्। स्त्री०। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति धृषि क्रोधे हिंसे, शक्तिबन्धे–क्नु। धर्षणशीलां भयस्य जनयित्रीम्। धिषणम्। धृषेर्धिष च सञ्ज्ञायाम्। उ० २।८२। इति ञिधृषा प्रागल्भ्ये–क्यु, धिषादेशश्च। यद्वा, धिष शब्दे–क्यु, धिषणा वाङ्नाम–निघ० १।११। बुद्धिः, कोषे च। बोधं वाचं वा। (जिघत्स्वम्) इत्यस्य कर्म। एकवाद्याम्। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति वद वाचि ण्यत्। एकम् एकप्रकारमेव वाद्यं दीनतारूपं वचनं यस्याः सा। ताम् अलक्ष्मीम्। जिघत्स्वम्। लुङ्सनोर्घस्लृ। पा० २।४।३७। इति अद भक्षणे+सन्–घस्लादेशः। ततः। सनाशंसभिक्ष उः। पा० ३।२।१६८। इति उः, स्त्रियाम् ऊङ् वा। अत्तुमिच्छुम्। सर्वाः। निखिलाः। चण्डस्य। नपुंसकलिङ्गम्। चडि कोपे–पचाद्यच्। यद्वा। ञमन्ताड् डः। उ० १।१११४। इति चण हिंसे–डः। डस्य न इत्वम्। कोपस्य। क्रोधस्य। नप्त्यः। न पतन्ति पितरो येनेति नप्ता। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति न+पत अधोगतौ–तृन्। ऋन्नेभ्यो ङीप् पा० ४।१।५। इति ङीप्। छन्दसि र लोपो जश्त्वं च। नप्त्रीः। अपत्यभूताः। नाशयामः। हन्मः। सदान्वाः। नौतेः शब्दकर्मणो यङ्लुगन्तात्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पचाद्यच्। न धातुलोप आर्धधातुके। पा० १।१।४। इति गुणप्रतिषेधे उवङ्स्थाने छान्दसो यण् आदेशः, टाप् च। सदान्वे सदानोनुवे शब्दकारिके–निरु० ६।३०। दुर्भिक्षाधिदेवतोच्यते, कालकर्णा वा अलक्ष्मीः–इति तत्र टीकायां देवराजयज्वा। सदानोनुवाः। सर्वदा नोनूयमानाः। शब्दायमानाः सर्वप्रकारा दरिद्रतादिविपत्तीः यद्वा। स+दानवाः। केशाद् वोऽन्यतरस्याम्। पा० ५।२।१०९। अत्र वार्त्तिकम्। अन्येभ्योऽपि दृश्यते। इति व प्रत्ययो मत्वर्थे। अकारलोपः। दानवैश्छेदनशीलैः सह वर्तमानाः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal