Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 34 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 34/ मन्त्र 1
    सूक्त - अथर्वा देवता - पशुपतिः छन्दः - त्रिष्टुप् सूक्तम् - पशुगण सूक्त
    56

    य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥

    स्वर सहित पद पाठ

    य: । ईशे॑ । प॒शु॒ऽपति॑:। प॒शू॒नाम् । चतु॑:ऽपदाम् । उ॒त । य: । द्वि॒ऽपदा॑म् । नि:ऽक्री॑त: । स: । य॒ज्ञिय॑म् । भा॒गम् । ए॒तु॒ । रा॒य: । पोषा॑: । यज॑मानम् । स॒च॒न्ता॒म् ॥३४.१॥

    स्वर रहित मन्त्र

    य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम्। निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥

    स्वर रहित पद पाठ

    य: । ईशे । पशुऽपति:। पशूनाम् । चतु:ऽपदाम् । उत । य: । द्विऽपदाम् । नि:ऽक्रीत: । स: । यज्ञियम् । भागम् । एतु । राय: । पोषा: । यजमानम् । सचन्ताम् ॥३४.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    बन्ध से मुक्ति के लिये उपदेश।

    पदार्थ

    (यः) जो (पशुपतिः) पशुओं [जीवों] का स्वामी परमेश्वर (चतुष्पदाम्) चौपाये, (उत) और (यः) जो (द्विपदाम्) दोपाये (पशूनाम्) जीवों का (ईशे=इष्टे) राजा है। (सः) वह परमेश्वर (निष्क्रीतः) अनुकूल होकर (यज्ञियम्) हमारे पूजायोग्य (भागम्) भजन वा अंश को (एतु) प्राप्त करे। (रायः) धन की (पोषाः) वृद्धियाँ (यजमानम्) पूजनीय कर्म करनेवाले को (सचन्ताम्) सींचती रहें ॥१॥

    भावार्थ

    परमेश्वर सब मनुष्यादि दोपाये और गौ आदि चौपाये और सब संसार का स्वामी है, वह मनुष्यों के धर्मानुकूल चलने से उनका (निष्क्रीतः) मोल लिया हुआ अर्थात् उनका इच्छावर्ती होकर उनको सब प्रकार का आनन्द देता है ॥१॥

    टिप्पणी

    १–ईशे। ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। अधीगर्थदयेशां कर्मणि। पा० २।३।५३। इति कर्मणि षष्ठी। ईष्टे। ईश्वरः स्वामी वर्तते। पशुपतिः। अर्जिदृशिकम्यमि०। उ० १।२७। इति दृशिर् प्रेक्षे–कु। पातेर्डतिः। उ० ४। इति पा रक्षणे–डति। पशूनां दृष्टिवतां दृष्टानां वा स्थावरजङ्गमानां जीवानां पाता रक्षिता परमेश्वरः। पशूनाम्। अ० १।२५।२। जीवानाम्। चतुष्पदाम्। संख्यासुपूर्वस्य। पा० ५।२।१४०। इति बहुव्रीहेः पादशब्दान्तस्य लोपः। पादः पत्। पा० ६।४।१३०। इति पाद् इत्यस्य पदादेशो भसंज्ञायाम्। गवादीनाम्। उत। अपि च। द्विपदाम्। पूर्ववत् सिद्धिः। मनुष्यादीनाम्। निष्क्रीतः। निः नितराम्+क्रीञ् मूल्यदानेन द्रव्यग्रहणे–क्त। प्रार्थनादिना अनुकूलीकृतः। यज्ञियम्। यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।७१। पूजाकर्मार्हम्। भागम्। भज भागसेवयोः–घञ्। अंशम्। भजनम्। एतु। गच्छतु। प्राप्नोतु। रायः। रातेर्डैः। उ० २।६६। इति रा दाने ग्रहणे च–डै। धनस्य। स्वर्णस्य। पोषाः। पुष पुष्टौ धृतौ च–घञ्। समृद्धयः। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति (रायस्पोषाः) अत्र सत्त्वम्। यजमानम्। यज देवपूजासङ्गतिकरणदानेषु–शानच्। यष्टारम्। याजकम्। सचन्ताम्। षचङ् सेचने–लोट्। सिञ्चन्तु ॥

    इंग्लिश (1)

    Subject

    Way to Freedom, Moksha

    Meaning

    Pashupati, lord ruler and protector of living beings, humans, birds and animals, may, we pray, be kind and gracious to accept our homage offered by yajna and bless the yajamana with health, growth, progress and prosperity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top