Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 128 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 128/ मन्त्र 16
    सूक्त - देवता - प्रजापतिरिन्द्रो वा प्रजापतिरिन्द्रो वा छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त
    24

    ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्। पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥

    स्वर सहित पद पाठ

    ये । त्वा॑ । श्वे॒ता: । अजै॑श्रव॒स: । हार्य॑: । यु॒ञ्जन्ति॒ । दक्षि॑णम् ॥ पूर्वा॒ । नम॑स्य । दे॒वाना॒म् । बिभ्र॑त् । इन्द्र । महीयते ॥१२८.१६॥

    स्वर रहित मन्त्र

    ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम्। पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥

    स्वर रहित पद पाठ

    ये । त्वा । श्वेता: । अजैश्रवस: । हार्य: । युञ्जन्ति । दक्षिणम् ॥ पूर्वा । नमस्य । देवानाम् । बिभ्रत् । इन्द्र । महीयते ॥१२८.१६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 16
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (नमस्य) हे नमस्कारयोग्य (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ये) जो (श्वेताः) चाँदी [आदि धन]वाले, (अजैश्रवसः) अजेय कीर्तिवाले (हार्यः) मनुष्य (दक्षिणम्) चतुर (त्वा) तुझसे (युञ्जन्ति) मिलते हैं, (देवानाम्) विद्वानों की (बिभ्रत्) पोषण करनेवाले (पूर्वा) [उनकी] पुरानी नीति (महीयते) पूजी जाती है ॥१६॥

    भावार्थ

    चतुर राजा धनी विद्वान् मनुष्यों की सुनीति का सदा आदर करे ॥१६॥

    टिप्पणी

    १६−(ये) (त्वा) (श्वेताः) श्वेतं रूप्येऽपि रजतम्-अमरे २३।७९। श्वेत-अर्शआद्यच्। श्वेतेन रजतादिधनेन युक्ताः (अजैश्रवसः) अजेय-श्रवसः। अजेयकीर्तयः (हार्यः) वसिवपियजि०। उ० ४।१२। हृञ् हरणे-इञ्। हरयो मनुष्यनाम-निघ० २।३। हरयः। मनुष्याः (युञ्जन्ति) संयोजयन्ति (दक्षिणम्) दक्ष वृद्धौ-इनन्। दक्षम्। कार्यकुशलम् (पूर्वा) प्राचीना नीतिः (नमस्य) हे सत्करणीय (देवानाम्) विदुषाम् (बिभ्रत्) बिभ्रती। पोषणं कुर्वन्ती (इन्द्र) परमैश्वर्यवन् मनुष्य (महीयते) पूज्यते ॥

    इंग्लिश (1)

    Subject

    Indra Prajapati

    Meaning

    Hey Indra, those who are pure and spotless, who have won imperishable honour and fame and have withdrawn their worldly desires and ambitions, and who join you, Omnificent Lord, every one of them, front ranker among divine personalities, bearing you at heart in the soul, they are great, happy and exalted.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top