अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 137/ मन्त्र 1
सूक्त - शिरिम्बिठिः
देवता - अलक्ष्मीनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त १३७
37
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः। ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥
स्वर सहित पद पाठयत् । ह॒ । प्राची॑: । अज॑गन्त । उर॑: । म॒ण्डू॒र॒ऽधा॒णि॒की॒: ॥ ह्व॒ता: । इन्द्र॑स्य । शत्र॑व: । सर्वे॑ । बु॒द्बु॒दऽया॑शव: ॥१३७.१॥
स्वर रहित मन्त्र
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः। हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
स्वर रहित पद पाठयत् । ह । प्राची: । अजगन्त । उर: । मण्डूरऽधाणिकी: ॥ ह्वता: । इन्द्रस्य । शत्रव: । सर्वे । बुद्बुदऽयाशव: ॥१३७.१॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ
(मण्डूरधाणिकीः) हे विभग धारण करनेवाली (उरः) मारू सेनाओ ! (प्राचीः) आगे बढ़ती हुई (यत् ह) जभी (अजगन्त) तुम चली हो। [तभी] (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] के (सर्वे) सब (शत्रवः) वैरी लोग (बुद्बुदयाशवः) बुद्बुदों के समान चलनेवाले और फैलनेवाले होकर (हताः) मारे गये ॥१॥
भावार्थ
राजा व्यूहरचना से टुकरी-टुकरी करके सुशिक्षित सेना के द्वारा शत्रुओं को बुद्बुदों के समान निर्बल करके मारे ॥१॥
टिप्पणी
यह मन्त्र ऋग्वेद में है-१०।१।४ ॥ १−(यत्) यदा (ह) एव (प्राचीः) प्रकर्षेण अञ्चन्त्यः। प्रकृष्टगमनाः सत्यः (अजगन्त) गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः। तप्तनप्तनथनाश्च। पा० ७।१।४। तस्य तबादेशः। अगच्छत यूयम् (उरः) उर्वी हिंसायाम्-क्विप्। राल्लोपः। पा० ६।४।२१। वलोपः, ततो जसि रूपम्। हे हिंसित्र्यो मारणशीलाः सेनाः (मण्डूरधाणिकीः) मीनातेरूरन्। उ० १।६७। मडि विभाजने भूषायां हर्षे च−ऊरन्। आणको लूधूशिङ्धिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, ङीप्, इत्वं च। हे विभागस्य धारयित्र्यः व्यूहेन (हताः) नष्टाः (इन्द्रस्यः) ऐश्वर्यवतो राज्ञः (शत्रवः) (सर्वे) (बुद्बुदयाशवः) बुद आलोचने प्रणिधाने−क्विप्+बुद आलोचनो+क। यन्ति गच्छन्तीति याः, या-क्विप्। अश्नुवत इत्याशवः, अशू व्याप्तौ-उण्। बुद्बुदवत् जलस्य गोलाकारविकारवत् यातारो व्यापनशीलाश्च सन्तः ॥
इंग्लिश (1)
Subject
Prajapati
Meaning
When floods of water flow forth bearing iron ore, rejoicing as if with croaking frogs, all adversities, enemies of humanity, disappear like bubbles, at once.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
यह मन्त्र ऋग्वेद में है-१०।१।४ ॥ १−(यत्) यदा (ह) एव (प्राचीः) प्रकर्षेण अञ्चन्त्यः। प्रकृष्टगमनाः सत्यः (अजगन्त) गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः। तप्तनप्तनथनाश्च। पा० ७।१।४। तस्य तबादेशः। अगच्छत यूयम् (उरः) उर्वी हिंसायाम्-क्विप्। राल्लोपः। पा० ६।४।२१। वलोपः, ततो जसि रूपम्। हे हिंसित्र्यो मारणशीलाः सेनाः (मण्डूरधाणिकीः) मीनातेरूरन्। उ० १।६७। मडि विभाजने भूषायां हर्षे च−ऊरन्। आणको लूधूशिङ्धिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, ङीप्, इत्वं च। हे विभागस्य धारयित्र्यः व्यूहेन (हताः) नष्टाः (इन्द्रस्यः) ऐश्वर्यवतो राज्ञः (शत्रवः) (सर्वे) (बुद्बुदयाशवः) बुद आलोचने प्रणिधाने−क्विप्+बुद आलोचनो+क। यन्ति गच्छन्तीति याः, या-क्विप्। अश्नुवत इत्याशवः, अशू व्याप्तौ-उण्। बुद्बुदवत् जलस्य गोलाकारविकारवत् यातारो व्यापनशीलाश्च सन्तः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal