अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 37/ मन्त्र 10
ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यञ्चो॒ दद॑तो म॒घानि॑। तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥
स्वर सहित पद पाठए॒ते । स्तोमा॑: । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्च: । दद॑त: । म॒घानि॑ ॥ तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒व: । भू: । सखा॑ । च॒ । शूर॑: । अ॒वि॒ता । च॒ । नृ॒णाम् ॥३७.१०॥
स्वर रहित मन्त्र
एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि। तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥
स्वर रहित पद पाठएते । स्तोमा: । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्च: । ददत: । मघानि ॥ तेषाम् । इन्द्र । वृत्रऽहत्ये । शिव: । भू: । सखा । च । शूर: । अविता । च । नृणाम् ॥३७.१०॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के धर्म का उपदेश।
पदार्थ
(नराम्) नरों के बीच (नृतम) हे बड़े नर ! [नेता] (एते) यह (अस्मद्र्यञ्चः) हमको मिलनेवाले (स्तोमाः) प्रशंसनीय विद्वान् लोग (तुभ्यम्) तेरे लिये (मघानि) धनों को (ददतः) देते हुए हैं। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन् !] (वृत्रहत्ये) शत्रुओं के मारनेवाले संग्राम में (तेषाम्) उन (नृणाम्) नरों का (शिवः) मङ्गलकारी (सखा) मित्र (च च) और (शूरः) शूर (अविता) रक्षक (भूः) तू हो ॥१०॥
भावार्थ
राजा विद्वानों द्वारा धन आदि बढ़ाकर शत्रुओं का नाश करके प्रजा की रक्षा करे ॥१०॥
टिप्पणी
१०−(एते) (स्तोमाः) प्रशंसनीयाः पुरुषाः (नराम्) नॄ नये-विट्। नेतॄणां मध्ये (नृतम) नयतेर्डिच्च। उ०२।१००। णीञ् प्रापणे-ऋप्रत्ययो-डित्, तमप्। हे अतिशयेन नायक (तुभ्यम्) (अस्मद्र्यञ्चः) अस्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा०६।३।९२। अस्मद्-शब्दस्य टेरद्रि। अस्मान् अञ्चन्तः प्राप्नुवन्तः (ददतः) प्रयच्छन्तः सन्ति (मघानि) धनानि (तेषाम्) हे परमैश्वर्यवन् राजन् (वृत्रहत्ये) वृत्राणां शत्रूणां हत्या हननं यस्मिंस्तस्मिन्, सङ्ग्रामे (शिवः) मङ्गलकारी (भूः) अभूः। भव (सखा) सुहृत् (च) (शूरः) निर्भयः (अविता) रक्षकः (सृ) (नृणाम्) नेतॄणाम् ॥
इंग्लिश (1)
Subject
lndra Devata
Meaning
These songs of adoration offered to you, O highest leader of the leaders of men, in fact, come back to us, giving wealth, honours and excellence of life. O lord, in these people’s battle against darkness, want and injustice, be their friend, wise protector and kind defender.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१०−(एते) (स्तोमाः) प्रशंसनीयाः पुरुषाः (नराम्) नॄ नये-विट्। नेतॄणां मध्ये (नृतम) नयतेर्डिच्च। उ०२।१००। णीञ् प्रापणे-ऋप्रत्ययो-डित्, तमप्। हे अतिशयेन नायक (तुभ्यम्) (अस्मद्र्यञ्चः) अस्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा०६।३।९२। अस्मद्-शब्दस्य टेरद्रि। अस्मान् अञ्चन्तः प्राप्नुवन्तः (ददतः) प्रयच्छन्तः सन्ति (मघानि) धनानि (तेषाम्) हे परमैश्वर्यवन् राजन् (वृत्रहत्ये) वृत्राणां शत्रूणां हत्या हननं यस्मिंस्तस्मिन्, सङ्ग्रामे (शिवः) मङ्गलकारी (भूः) अभूः। भव (सखा) सुहृत् (च) (शूरः) निर्भयः (अविता) रक्षकः (सृ) (नृणाम्) नेतॄणाम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal