Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 19 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - विश्वे देवाः, चन्द्रमाः, इन्द्रः छन्दः - पथ्याबृहती सूक्तम् - अजरक्षत्र
    49

    संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥

    स्वर सहित पद पाठ

    सम्ऽशि॑तम् । मे॒ । इ॒दम् । ब्रह्म॑ । सम्ऽशि॑तम् । वी॒र्य᳡म् । बल॑म् । सम्ऽशि॑तम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त:॥१९.१॥

    स्वर रहित मन्त्र

    संशितं म इदं ब्रह्म संशितं वीर्यं बलम्। संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥

    स्वर रहित पद पाठ

    सम्ऽशितम् । मे । इदम् । ब्रह्म । सम्ऽशितम् । वीर्यम् । बलम् । सम्ऽशितम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु: । येषाम् । अस्मि । पुर:ऽहित:॥१९.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    युद्धविद्या का उपदेश।

    पदार्थ

    (मे) मेरे लिये [इन वीरों को] (इदम्) यह (ब्रह्म) वेदज्ञान वा अन्न वा धन (संशितम्) यथाविधि सिद्ध किया गया है, और (वीर्यम्) वीरता और (बलम्) सेना दल (संशितम्) यथाविधि सिद्ध किया गया है, (संशितम्) यथाविधि सिद्ध किया हुआ (क्षत्रम्) राज्य (अजरम्) अटल (अस्तु) होवे, (येषाम्) जिनका मैं (जिष्णुः) विजयी (पुरोहितः) पुरोहित अर्थात् प्रधान (अस्मि) हूँ ॥१॥

    भावार्थ

    सेनापति राजा विद्या, अन्न, और धन आदि की यथावत् वृद्धि करके अपने वीरों और सेना का उत्साह बढ़ाता रहे, जिससे राज्य चिरस्थायी हो ॥१॥

    टिप्पणी

    १−(संशितम्) सम्+शो तनूकरणे-क्त। सम्यक् सम्पादितं साधितम्। (मे) ममार्थम्। (इदम्) प्रसिद्धम्। (ब्रह्म) प्रवृद्धं वेदज्ञानाम्। अन्नम्, निघ० २।८। धनम्, निघ० २।१०। (वीर्यम्) वीर-भावे यत्। वीरता। (बलम्) सैन्यम्। (क्षत्रम्)। अ० २।१५।४। क्षत्रियकुलम्। राज्यम्। (अजरम्) जरारहितम्। (जिष्णुः) ग्लाजिस्थश्च ग्स्नुः। पा० ३।२।१३९। इति जि जये-ग्स्नु। विजयी। (येषाम्) योद्धॄणाम्। (पुरोहितः) पुरस्+डुधाञ् धारणपोषणयोः-क्त। पूर्वाधरावराणामसि०। पा० ५।३।३९। इति पूर्व असि, पुर् आदेशः। दधातेर्हिः। पा० ७।४।४२। इति हि। पुरोहितः पुर एनं दधति होत्राय वृतः कृपायमाणोऽन्वध्यायत्। निरु० २।१२। पूर्वम् अग्रे कर्मसु धीयते, आरोप्यते यः। प्रधानः। अग्रसरः ॥

    इंग्लिश (1)

    Subject

    Strong Rashtra

    Meaning

    Crystal sharp and powerful is this, my song of Divinity, immaculate potent my strength and valour, inviolable and imperishable be the Kshatra, refined and glorified, of which I am the celebrant high priest whose ambition is victory of the Rashtra, the social order.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top