Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 112 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 1
    ऋषि: - अथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त
    38

    मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षां मू॑ल॒बर्ह॑णा॒त्परि॑ पाह्येनम्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्तुभ्यं॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥

    स्वर सहित पद पाठ

    मा । ज्ये॒ष्ठम् । व॒धी॒त् । अ॒यम् । अ॒ग्ने॒ । ए॒षाम् । मू॒ल॒ऽबर्ह॑णात् । परि॑ । पा॒हि॒ । ए॒न॒म् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । तुभ्य॑म् । दे॒वा: । अनु॑ । जा॒न॒न्तु॒ । विश्वे॑ ॥११२.१॥


    स्वर रहित मन्त्र

    मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम्। स ग्राह्याः पाशान्वि चृत प्रजानन्तुभ्यं देवा अनु जानन्तु विश्वे ॥

    स्वर रहित पद पाठ

    मा । ज्येष्ठम् । वधीत् । अयम् । अग्ने । एषाम् । मूलऽबर्हणात् । परि । पाहि । एनम् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । तुभ्यम् । देवा: । अनु । जानन्तु । विश्वे ॥११२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    कुल की रक्षा का उपदेश।

    पदार्थ

    (अग्ने) हे विद्वान् पुरुष ! (अयम्) यह [रोग] (एषाम्) इन [पुरुषों] के बीच (ज्येष्ठम्) विद्या और वय में बहुत बड़े पुरुष को (मा वधीत्) न मारे, (एनम्) इस [पुरुष] को (मूलबर्हणात्) मूल छेदन से (परि पाहि) सर्वथा बचा। (सः) सो तू (प्रजानन्) ज्ञानी होकर (ग्राह्याः) जकड़नेवाले गठिया आदि रोग के (पाशान्) फन्दों को (विचृत) खोल दे, (विश्वे) सब (देवाः) विद्वान् लोग (तुभ्यम्) तुझको (अनु जानन्तु) अनुमति देवें ॥१॥

    भावार्थ

    मनुष्य विद्वानों की सम्मति से श्रेष्ठ पुरुष की रक्षा का सदा उपाय करें ॥१॥

    टिप्पणी

    १−(ज्येष्ठम्) प्रशस्य वा वृद्ध−इष्ठन्। ज्य च। वृद्धस्य च। पा० ५।३।६१, ६२। इति प्रशस्यस्य, वृद्धस्य वा ज्य इत्यादेशः। ज्ञाने वयसि वा वृद्धतमम् (मा वधीत्) मा हन्तु (अयम्) रोगः (अग्ने) हे विद्वन् (एषाम्) गृहस्थानां मध्ये (मूलबर्हणात्) अ० ६।११०।२। मूलच्छेदनात् (परि) सर्वतः (पाहि) (एनम्) ज्येष्ठम् (सः) स त्वम् (ग्राह्याः) अ० २।९।१। अङ्गग्रहीत्र्याः पीडायाः (पाशान्) बन्धान् क्लेशान् (वि चृत) चृती हिंसाग्रन्थनयोः। विमुञ्च (प्रजानन्) विद्वान् (तुभ्यम्) विदुषे (देवाः) विद्वांसः (अनु जानन्तु) अनुमतिं ददतु (विश्वे) सर्वे ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Freedom from Bondage

    Meaning

    O Lord self-refulgent and omniscient, Agni, ruler and guide of humanity, let this man not hurt or kill the senior. Protect him from severing himself from the common root of these members of the human family. O Lord, you know them and their bonds.Break the chains that ensnare and alienate them, and let all the noble people too know your purpose and follow you in the service of human solidarity.

    Top