अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 117/ मन्त्र 1
अ॑प॒मित्य॒मप्र॑तीत्तं॒ यदस्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ चरा॑मि। इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न्वि॒चृतं॑ वेत्थ॒ सर्वा॑न् ॥
स्वर सहित पद पाठअ॒प॒ऽमित्य॑म् । अप्र॑तीत्तम् । यत् । अस्मि॑ । य॒मस्य॑। येन॑ । ब॒लिना॑ । चरा॑मि । इ॒दम् । तत् । अ॒ग्ने॒ । अ॒नृ॒ण: । भ॒वा॒मि॒ । त्वम् । पाशा॑न् । वि॒ऽचृ॒त॑म् । वे॒त्थ॒ । सर्वा॑न् ॥११७.१॥
स्वर रहित मन्त्र
अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि। इदं तदग्ने अनृणो भवामि त्वं पाशान्विचृतं वेत्थ सर्वान् ॥
स्वर रहित पद पाठअपऽमित्यम् । अप्रतीत्तम् । यत् । अस्मि । यमस्य। येन । बलिना । चरामि । इदम् । तत् । अग्ने । अनृण: । भवामि । त्वम् । पाशान् । विऽचृतम् । वेत्थ । सर्वान् ॥११७.१॥
भाष्य भाग
हिन्दी (1)
विषय
ऋण से छूटने का उपदेश।
पदार्थ
(यमस्य) नियम करनेवाले [ऋणदाता] के (अप्रतीत्तम्) विना चुकाये (यत्) जिस (अपमित्यम्) अपमान के हेतु ऋण को (अस्मि=असामि) मैं ग्रहण करता हूँ, और (येन बलिना) जिस बलवान् के साथ [ऋण लेकर] (चरामि) मैं चेष्टा करता हूँ। (इदम्) अब (तत्) उससे, (अग्ने) हे विद्वान् ! मैं (अनृणः) ऋणरहित (भवामि) हो जाऊँ, (त्वम्) तू (सर्वान्) सब (पाशान्) बन्धनों को (विचृतम्) खोलना (वेत्थ) जानता है ॥१॥
भावार्थ
मनुष्य ज्ञानपूर्वक पुरुषार्थ करके माता पिता आचार्य आदि की सेवा से देव ऋण, पितृ ऋण और ऋषि ऋण चुकावें ॥१॥
टिप्पणी
१−(अपमित्यम्) तत्र साधुः। पा० ४।४।९८। इति अपमिति−यत्। अपमितौ अपमाने साधु। अपमानसाधकमृणम् (अप्रतीत्तम्) प्रतिपूर्वाद् ददातेर्निष्ठा। अच उपसर्गात्तः। पा० ७।४।४७। इत्याकारस्य तकारः। दस्ति। ६।३।१२४। उपसर्गस्य दीर्घः। अप्रत्यर्पितम् (यत्) (अस्मि) अस ग्रहणे भ्वादिः शपो लुक् छान्दसः। असामि। गृह्णामि (यमस्य) प्रवर्ते (इदम्) इदानीम् (तत्) तस्माद् ऋणात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) (त्वम्) (पाशान्) बन्धान् (विचृतम्) शकि णमुल्कमुलौ। पा० ३।४।१२। इति विचृती हिंसाग्रन्थनयोः−बाहुलकात् कमुल् तुमर्थे। विचर्तितुं मोचयितुम् (वेत्थ) जानासि (सर्वान्) ॥
इंग्लिश (1)
Subject
The Debt of Obligation
Meaning
The debt of obligation I owe is not paid. I am a debtor to Yama, lord of ultimate law. However, I walk with the mighty, and that mighty, O Agni, lord of light and leadership, you are. You know all the rules of freedom from the bonds. Enlighten me that I may be free from the bonds of the debt of obligation.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−(अपमित्यम्) तत्र साधुः। पा० ४।४।९८। इति अपमिति−यत्। अपमितौ अपमाने साधु। अपमानसाधकमृणम् (अप्रतीत्तम्) प्रतिपूर्वाद् ददातेर्निष्ठा। अच उपसर्गात्तः। पा० ७।४।४७। इत्याकारस्य तकारः। दस्ति। ६।३।१२४। उपसर्गस्य दीर्घः। अप्रत्यर्पितम् (यत्) (अस्मि) अस ग्रहणे भ्वादिः शपो लुक् छान्दसः। असामि। गृह्णामि (यमस्य) प्रवर्ते (इदम्) इदानीम् (तत्) तस्माद् ऋणात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) (त्वम्) (पाशान्) बन्धान् (विचृतम्) शकि णमुल्कमुलौ। पा० ३।४।१२। इति विचृती हिंसाग्रन्थनयोः−बाहुलकात् कमुल् तुमर्थे। विचर्तितुं मोचयितुम् (वेत्थ) जानासि (सर्वान्) ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal