ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 16
त्वं न॑: प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वत॑: । आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
स्वर सहित पद पाठत्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ । आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥
स्वर रहित मन्त्र
त्वं न: पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वत: । आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
स्वर रहित पद पाठत्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः । आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥ ८.६१.१६
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 16
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 1
विषयः - N/A
पदार्थः -
हे इन्द्र ! त्वं नोऽस्मान् । पश्चात् । अधरात्=अधोभागात् । ऊर्ध्वभागाच्च । उत्तरात् । दक्षिणतश्च । पुरः=पुरस्तात् । किं बहुना । विश्वतः=सर्वास्मात् प्रदेशात् । निपाहि । हे देव ! अस्मद्=अस्मत्तः । दैव्यं भयमा । आरे=दूरे । कृणुहि=कुरु । पुनः । अदेवीः+हेतीः=आसुराणि चायुधानि च । आरे=कुरु ॥१६ ॥