Loading...
ऋग्वेद मण्डल - 10 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 1
    ऋषिः - त्रितः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

    स्वर सहित पद पाठ

    अग्ने॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥


    स्वर रहित मन्त्र

    अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥

    स्वर रहित पद पाठ

    अग्ने । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निःऽजगन्वान् । तमसः । ज्योतिषा । आ । अगात् । अग्निः । भानुना । रुशता । सुऽअङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः ॥ १०.१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 1

    Meaning -
    There on the eastern horizon, with the first lights of the dawn emerging out of darkness, rises up the sun, mighty Agni, great and glorious with radiant light, and as it rises it covers and lights up all regions of the world.

    इस भाष्य को एडिट करें
    Top