ऋग्वेद - मण्डल 6/ सूक्त 67/ मन्त्र 5
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑। परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥५॥
स्वर सहित पद पाठविश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ । परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥
स्वर रहित मन्त्र
विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः। परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥५॥
स्वर रहित पद पाठविश्वे। यत्। वाम्। मंहना। मन्दमानाः। क्षत्रम्। देवासः। अदधुः। सऽजोषाः। परि। यत्। भूथः। रोदसी इति। चित्। उर्वी इति। सन्ति। स्पशः। अदब्धासः। अमूराः ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 67; मन्त्र » 5
अष्टक » 5; अध्याय » 1; वर्ग » 9; मन्त्र » 5
अष्टक » 5; अध्याय » 1; वर्ग » 9; मन्त्र » 5
Meaning -
Since you pervade over and across the wide earth and heaven by your presence, the brilliant and generous great powers of the world, rejoicing by virtue of your grandeur and majesty, loving and cooperative together, hold sway over the social order of the earth and rule, intelligent and enlightened, undaunted and perceptive all over like watchful eyes and ears of the nation.