Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 21
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - निचृदगायत्री स्वरः - षड्जः
    9

    अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑। मू॒र्धा क॒वी र॑यी॒णाम्॥२१॥

    स्वर सहित पद पाठ

    अ॒यम्। अ॒ग्निः। स॒ह॒स्रिणः॑। वाज॑स्य। श॒तिनः॑। पतिः॑। मू॒र्द्धा। क॒विः। र॒यी॒णाम् ॥२१ ॥


    स्वर रहित मन्त्र

    अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम् ॥


    स्वर रहित पद पाठ

    अयम्। अग्निः। सहस्रिणः। वाजस्य। शतिनः। पतिः। मूर्द्धा। कविः। रयीणाम्॥२१॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 21
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथाऽयमग्निः सहस्रिणः शतिनो वाजस्य रयीणां च पतिर्मूर्द्धा कविरस्ति, तथैव यूयं भवत॥२१॥

    पदार्थः -
    (अयम्) (अग्निः) हेमन्ते वर्त्तमानः (सहस्रिणः) प्रशस्तासंख्यपदार्थयुक्तस्य (वाजस्य) अन्नस्य (शतिनः) प्रशस्तैर्गुणैः सह शतधा वर्त्तमानस्य (पतिः) पालकः (मूर्द्धा) उत्तमाङ्गवद्वर्त्तमानः (कविः) क्रान्तदर्शनः (रयीणाम्) धनानाम्॥२१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्यायुक्तिभ्यां सेवितोऽग्निः पुष्कले धनधान्ये प्रयच्छति, तथैव सेवितः पुरुषार्थो मनुष्यान् श्रीमतः सम्पादयति॥२१॥

    इस भाष्य को एडिट करें
    Top