Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 12
    ऋषिः - हैमवर्चिर्ऋषिः देवता - विद्वांसो देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    12

    दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑। वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः॥१२॥

    स्वर सहित पद पाठ

    दे॒वाः। य॒ज्ञम्। अ॒त॒न्व॒त॒। भे॒ष॒जम्। भि॒षजा॑। अ॒श्विना॑। वा॒चा। सर॑स्वती। भि॒षक्। इन्द्रा॑य। इ॒न्द्रि॒याणि॑। दध॑तः ॥१२ ॥


    स्वर रहित मन्त्र

    देवा यज्ञमतन्वत भेषजम्भिषजाश्विना । वाचा सरस्वती भिषगिन्द्रायेन्द्रियाणि दधतः ॥


    स्वर रहित पद पाठ

    देवाः। यज्ञम्। अतन्वत। भेषजम्। भिषजा। अश्विना। वाचा। सरस्वती। भिषक्। इन्द्राय। इन्द्रियाणि। दधतः॥१२॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 12
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथेन्द्रियाणि दधतो भिषक् सरस्वती भिषजाऽश्विना च देवा वाचेन्द्राय भेषजं यज्ञमतन्वत, तथैव यूयं कुरुत॥१२॥

    पदार्थः -
    (देवाः) विद्वांसः (यज्ञम्) सुखप्रदम् (अतन्वत) विस्तृतं कुरुत (भेषजम्) रोगप्रणाशकमौषधरूपम् (भिषजा) आयुर्वेदविदौ (अश्विनौ) आयुर्वेदाङ्गव्यापिनौ (वाचा) तदानुकूल्यया वाण्या (सरस्वती) सरः प्रशस्त आयुर्वेदबोधो विद्यते यस्याः सा (भिषक्) चिकित्साद्यङ्गवित् (इन्द्राय) परमैश्वर्याय (इन्द्रियाणि) चक्षुरादीनि धनानि वा (दधतः)॥१२॥

    भावार्थः - यावन्मनुष्याः पथ्यौषधिब्रह्मचर्य्यसेवनेन शरीरारोग्यबलबुद्धीर्न वर्द्धयन्ते, तावत् सर्वाणि सुखानि प्राप्तुं न शक्नुवन्ति॥१२॥

    इस भाष्य को एडिट करें
    Top