Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 47
    ऋषिः - वैखानस ऋषिः देवता - पितरो देवताः छन्दः - स्वराट् पङ्क्तिः स्वरः - पञ्चमः
    5

    द्वे सृ॒तीऽअ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्। ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च॥४७॥

    स्वर सहित पद पाठ

    द्वेऽइति॒ द्वे। सृ॒तीऽइति॑ सृ॒ती। अ॒शृ॒ण॒व॒म्। पि॒तॄ॒णाम्। अ॒हम्। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। ताभ्या॑म्। इ॒दम्। विश्व॑म्। एज॑त्। सम्। ए॒ति॒। यत्। अ॒न्त॒रा। पि॒तर॑म्। मा॒तर॑म्। च॒ ॥४७ ॥


    स्वर रहित मन्त्र

    द्वे सृतीऽअशृनवम्पितऋृणामहन्देवानामुत मर्त्यानाम् । ताभ्यामिदँविश्वमेजत्समेति यदन्तरा पितरम्मातरञ्च ॥


    स्वर रहित पद पाठ

    द्वेऽइति द्वे। सृतीऽइति सृती। अशृणवम्। पितॄणाम्। अहम्। देवानाम्। उत। मर्त्यानाम्। ताभ्याम्। इदम्। विश्वम्। एजत्। सम्। एति। यत्। अन्तरा। पितरम्। मातरम्। च॥४७॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 47
    Acknowledgment

    अन्वयः - हे मनुष्याः। अहं ये पितॄणां मर्त्यानां देवानां च द्वे सृती अशृणवं शृणोमि, ताभ्यामिदं विश्वमेजत्समेत्युत यत् पितरं मातरमन्तरा शरीरान्तरेणान्यौ मातापितरौ प्राप्नोति, तदेतद् यूयं विजानीत॥४७॥

    पदार्थः -
    (द्वे) (सृती) सरन्ति गच्छन्त्याऽऽगच्छन्ति जीवा ययोस्ते (अशृणवम्) शृणोमि (पितॄणाम्) जनकादीनाम् (अहम्) (देवानाम्) आचार्य्यादीनां विदुषाम् (उत) अपि (मर्त्यानाम्) मनुष्याणाम् (ताभ्याम्) (इदम्) (विश्वम्) सर्वं जगत् (एजत्) चलत्सत् (सम्) (एति) गच्छति (यत्) (अन्तरा) मध्ये (पितरम्) जनकम् (मातरम्) जननीम् (च)॥४७॥

    भावार्थः - द्वे एव जीवानां गती वर्त्तेते, एका मातापितृभ्यां जन्म प्राप्य संसारे विषयसुखभोगरूपा। द्वितीया विद्वत्सङ्गादिना मुक्तिसुखभोगाख्याऽस्ति, आभ्यां सहैव सर्वे प्राणिनश्चरन्ति॥४७॥

    इस भाष्य को एडिट करें
    Top