Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 26
    ऋषिः - प्रजापतिर्ऋषिः देवता - भूम्यादयो देवताः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    6

    भूम्या॑ऽआ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्तान् दि॒वे कशा॑न् दि॒ग्भ्यो न॑कु॒लान् बभ्रु॑कानवान्तरदि॒शाभ्यः॑॥२६॥

    स्वर सहित पद पाठ

    भूम्यै॑। आ॒खून्। आ। ल॒भ॒ते॒। अ॒न्तरि॑क्षाय। पा॒ङ्क्तान्। दि॒वे। कशा॑न्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः। न॒कु॒लान्। बभ्रु॑कान्। अ॒वा॒न्त॒र॒दि॒शाभ्य॒ इत्य॑वान्तरऽदि॒शाभ्यः॑ ॥२६ ॥


    स्वर रहित मन्त्र

    भूम्याऽआखूनालभतेन्तरिक्षाय पाङ्क्त्रान्दिवे कशान्दिग्भ्यो नकुलान्बभ्रुकानवाभ्यः ॥


    स्वर रहित पद पाठ

    भूम्यै। आखून्। आ। लभते। अन्तरिक्षाय। पाङ्क्तान्। दिवे। कशान्। दिग्भ्य इति दिक्ऽभ्यः। नकुलान्। बभ्रुकान्। अवान्तरदिशाभ्य इत्यवान्तरऽदिशाभ्यः॥२६॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 26
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा भूमिजन्तुगुणविज्जनो भूम्या आखूनन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलानवान्तरदिशाभ्यो बभ्रुकानलभते तथा यूयमप्यालभध्वम्॥२६॥

    पदार्थः -
    (भूम्यै) (आखून्) मूषकान् (आ) (लभते) (अन्तरिक्षाय) (पाङ्क्तान्) पङ्क्तिरूपेण गन्तॄन् पक्षिविशेषान् (दिवे) प्रकाशाय (कशान्) पक्षिविशेषान् (दिग्भ्यः) पूर्वादिभ्यः (नकुलान्) (बभु्रकान्) नकुलजातिविशेषान् (अवान्तरदिशाभ्यः) उपदिशाभ्यः॥२६॥

    भावार्थः - ये मनुष्या भूम्यादिवन्मूषकादिगुणान् विदित्वोपकुर्युस्ते बहुविज्ञाना जायेरन्॥२६॥

    इस भाष्य को एडिट करें
    Top