Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 714
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣡३꣱ꣳस꣡न꣢श्रुतम् । इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ॥७१४॥

स्वर सहित पद पाठ

पु꣣रुहूत꣢म् । पु꣣रु । हूत꣣म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । गा꣣थान्य꣢꣯म् । स꣡न꣢꣯श्रुतम् । स꣡न꣢꣯ । श्रु꣣तम् । इ꣡न्द्रः꣢꣯ । इ꣡ति꣢꣯ । ब्र꣣वीतन । ब्रवीत । न ॥७१४॥


स्वर रहित मन्त्र

पुरुहूतं पुरुष्टुतं गाथान्या३ꣳसनश्रुतम् । इन्द्र इति ब्रवीतन ॥७१४॥


स्वर रहित पद पाठ

पुरुहूतम् । पुरु । हूतम् । पुरुष्टुतम् । पुरु । स्तुतम् । गाथान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रः । इति । ब्रवीतन । ब्रवीत । न ॥७१४॥

सामवेद - मन्त्र संख्या : 714
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
भोः शिष्याः ! यूयम् (पुरुहूतम्) पुरुभिः बहुभिः आहूतम्, (पुरुष्टुतम्) बहुस्तुतम्, (गाथान्यम्२) गीयन्ते इति गाथाः वेदवाचः ताः नयति प्रापयतीति गाथानीः तम्,वेदवाचामुपदेष्टारम्, (सनश्रुतम्३) सनातनतया प्रसिद्धम् परमेश्वरमेव (इन्द्रः इति) इन्द्र इति नाम्ना (ब्रवीतन) ब्रूत। [ब्रूञ् व्यक्तायां वाचि, अदादिः, ईडागमश्छान्दसः, तस्य तनबादेशः] ॥२॥

भावार्थः - यद्यप्याचार्योऽपि ‘इन्द्र’ पदवाच्योऽस्ति तथापि इन्द्राणामपि इन्द्रः परमेश्वर एव विद्यते, “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” (योग० १।२६) इत्युक्तेः ॥२॥

इस भाष्य को एडिट करें
Top