Loading...
ऋग्वेद मण्डल - 1 के सूक्त 122 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 122/ मन्त्र 1
    ऋषिः - कक्षीवान् देवता - विश्वेदेवा: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    प्र व॒: पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम्। दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥

    स्वर सहित पद पाठ

    प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् । दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥


    स्वर रहित मन्त्र

    प्र व: पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्। दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥

    स्वर रहित पद पाठ

    प्र। वः। पान्तम्। रघुऽमन्यवः। अन्धः। यज्ञम्। रुद्राय। मीळ्हुषे। भरध्वम्। दिवः। अस्तोषि। असुरस्य। वीरैः। इषुध्याऽइव। मरुतः। रोदस्योः ॥ १.१२२.१

    ऋग्वेद - मण्डल » 1; सूक्त » 122; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 1; मन्त्र » 1

    अन्वयः - हे रघुमन्यवो रोदस्योर्मरुतइव इषुध्येव वीरैः। सह वर्त्तमाना यूयं मीढुषे रुद्राय वः पान्तं यज्ञमन्धश्च दिवोऽसुरस्य सम्बन्धे वर्त्तमानान् यथा प्रभरध्वं तथाहमेतमस्तोषि ॥ १ ॥

    पदार्थः -
    (प्र) प्रकृष्टे (वः) युष्मान् (पान्तम्) रक्षन्तम् (रघुमन्यवः) लघुक्रोधाः। अत्र वर्णव्यत्ययेन लस्य रः। (अन्धः) अन्नम् (यज्ञम्) सङ्गन्तव्यम् (रुद्राय) दुष्टानां रोदयित्रे (मीढुषे) सज्जनान् प्रति सुखसेचकाय (भरध्वम्) धरध्वम् (दिवः) विद्याप्रकाशान् (अस्तोषि) स्तौमि (असुरस्य) अविदुषः (वीरैः) (इषुध्येव) इषवो धीयन्ते यस्या तयेव (मरुतः) वायवः (रोदस्योः) भूमिसूर्ययोः ॥ १ ॥

    भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैर्यदा योग्यपुरुषैः सह प्रयत्यते तदा कठिनमपि कृत्यं सहजतया साद्धुं शक्यते ॥ १ ॥

    इस भाष्य को एडिट करें
    Top