Loading...
ऋग्वेद मण्डल - 1 के सूक्त 129 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 129/ मन्त्र 1
    ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्र: छन्दः - निचृदत्यष्टिः स्वरः - गान्धारः

    यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि। स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म्। सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥

    स्वर सहित पद पाठ

    यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि । स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् । सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥


    स्वर रहित मन्त्र

    यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि। सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम्। सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥

    स्वर रहित पद पाठ

    यम्। त्वम्। रथम्। इन्द्र। मेधऽसातये। अपाका। सन्तम्। इषिर। प्रऽनयसि। प्र। अनवद्य। नयसि। सद्यः। चित्। तम्। अभिष्टये। करः। वशः। च। वाजिनम्। सः। अस्माकम्। अनवद्य। तूतुजान। वेधसाम्। इमाम्। वाचम्। न। वेधसाम् ॥ १.१२९.१

    ऋग्वेद - मण्डल » 1; सूक्त » 129; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 16; मन्त्र » 1

    अन्वयः - हे इषिरेन्द्र त्वं मेधसातये यमपाका सन्तं रथं प्रणयसीव विद्यां प्रणयसि च, हे अनवद्य वशस्त्वमभिष्टये च वाजिनं चित्तं सद्यः करः। हे तूतुजानानवद्य स त्वमस्माकं वेधसान्न वेधसामिमां वाचं करः ॥ १ ॥

    पदार्थः -
    (यम्) (त्वम्) (रथम्) रमणीयम् (इन्द्र) विद्वन् सभेश (मेधसातये) मेधानां पवित्राणां संविभागाय (अपाका) अपगतमविद्याजन्यं दुःखं यस्य तम् (सन्तम्) विद्यमानम् (इषिर) इच्छो (प्रणयसि) (प्र) (अनवद्य) प्रशंसित (नयसि) प्रापयसि (सद्यः) (चित्) इव (तम्) (अभिष्टये) इष्टप्राप्तये (करः) कुर्य्याः। अत्र लेट्। (वशः) कामयमानः (च) (वाजिनम्) प्रशस्तज्ञानवन्तम् (सः) (अस्माकम्) (अनवद्य) प्रशंसितगुणयुक्त (तूतुजान) क्षिप्रकारिन् (वेधसाम्) मेधाविनाम् (इमाम्) (वाचम्) सुशिक्षितां वाणीम् (न) इव (वेधसाम्) मेधाविनाम् ॥ १ ॥

    भावार्थः - अत्रोपमालङ्कारः। ये विद्वांसः सर्वान्मनुष्यान् विद्याविनयेषु प्रवर्त्तयन्ति तेऽभीष्टानि साद्धुं शक्नुवन्ति ॥ १ ॥

    इस भाष्य को एडिट करें
    Top