Loading...
ऋग्वेद मण्डल - 1 के सूक्त 150 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 150/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - भुरिग्गायत्री स्वरः - षड्जः

    पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा। तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥

    स्वर सहित पद पाठ

    पु॒रु । त्वा॒ । दा॒स्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ । तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥


    स्वर रहित मन्त्र

    पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा। तोदस्येव शरण आ महस्य ॥

    स्वर रहित पद पाठ

    पुरु। त्वा। दाश्वान्। वोचे। अरिः। अग्ने। तव। स्वित्। आ। तोदस्यऽइव। शरणे। आ। महस्य ॥ १.१५०.१

    ऋग्वेद - मण्डल » 1; सूक्त » 150; मन्त्र » 1
    अष्टक » 2; अध्याय » 2; वर्ग » 19; मन्त्र » 1

    अन्वयः - हे अग्ने दाश्वानरिरहं महस्य तोदस्येव तव स्विदा शरणे त्वा पुर्वा वोचे ॥ १ ॥

    पदार्थः -
    (पुरु) बहु (त्वा) त्वाम् (दाश्वान्) दाता (वोचे) वदेयम् (अरिः) प्रापकः (अग्ने) विद्वन् (तव) (स्वित्) एव (आ) (तोदस्येव) व्यथकस्येव (शरणे) गृहे (आ) (महस्य) महतः ॥ १ ॥

    भावार्थः - यो यस्य भृत्यो भवेत् स तस्याऽज्ञां पालयित्वा कृतार्थो भवेत् ॥ १ ॥

    इस भाष्य को एडिट करें
    Top