Loading...
ऋग्वेद मण्डल - 1 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 22/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः देवता - अश्विनौ छन्दः - पिपीलिकामध्यानिचृद्गायत्री स्वरः - षड्जः

    प्रा॒त॒र्युजा॒ विबो॑धया॒श्विना॒वेह ग॑च्छताम्। अ॒स्य सोम॑स्य पी॒तये॑॥

    स्वर सहित पद पाठ

    प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    प्रातर्युजा विबोधयाश्विनावेह गच्छताम्। अस्य सोमस्य पीतये॥

    स्वर रहित पद पाठ

    प्रातःऽयुजा। वि। बोधय। अश्विनौ। आ। इह। गच्छताम्। अस्य। सोमस्य। पीतये॥

    ऋग्वेद - मण्डल » 1; सूक्त » 22; मन्त्र » 1
    अष्टक » 1; अध्याय » 2; वर्ग » 4; मन्त्र » 1

    अन्वयः - हे विद्वन् ! यौ प्रातर्युजावश्विनाविह गच्छतां प्राप्नुतस्तावस्य सोमस्य पीतये सर्वसुखप्राप्तयेऽस्मान् विबोधयावगमय॥१॥

    पदार्थः -
    (प्रातर्युजा) प्रातः प्रथमं युङ्क्तस्तौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (वि) विशिष्टार्थे (बोधय) अवगमय (अश्विनौ) द्यावापृथिव्यौ (आ) समन्तात् (इह) शिल्पव्यवहारे (गच्छताम्) प्राप्नुतः। अत्र लडर्थे लोट् (अस्य) प्रत्यक्षस्य (सोमस्य) स्तोतव्यस्य सुखस्य (पीतये) प्राप्तये॥१॥

    भावार्थः - शिल्पकार्य्याणि चिकीर्षुभिर्मनुष्यैर्भूम्यग्नी प्रथमं संग्राह्यौ नैताभ्यां विना यानादिसिद्धिगमने सम्भवत इतीश्वरस्योपदेशः॥१॥

    इस भाष्य को एडिट करें
    Top