ऋग्वेद - मण्डल 1/ सूक्त 30/ मन्त्र 1
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्तः॑ श॒तक्र॑तुम्। मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः॥
स्वर सहित पद पाठआ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् । मंहि॑ष्ठं सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥
स्वर रहित मन्त्र
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्। मंहिष्ठं सिञ्च इन्दुभिः॥
स्वर रहित पद पाठआ। वः। इन्द्रम्। क्रिविम्। यथा। वाजऽयन्तः। शतऽक्रतुम्। मंहिष्ठं सिञ्चे। इन्दुऽभिः॥
ऋग्वेद - मण्डल » 1; सूक्त » 30; मन्त्र » 1
अष्टक » 1; अध्याय » 2; वर्ग » 28; मन्त्र » 1
अष्टक » 1; अध्याय » 2; वर्ग » 28; मन्त्र » 1
विषयः - तत्रादिमे इन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते।
अन्वयः - हे सभाध्यक्ष ! मनुष्या यथा कृषीवलाः क्रिविं कूपं सम्प्राप्य तज्जलेन क्षेत्राणि सिञ्चन्ति यथा वाजयन्तो वायव इन्दुभिः शतक्रतुं मंहिष्ठमिन्द्रं च तथा त्वमपि प्रजाः सुखैः सिञ्च संयोजय॥१॥
पदार्थः -
(आ) सर्वतः (वः) युष्माकम् (इन्द्रम्) परमैश्वर्यहेतुप्रापकम् (क्रिविम्) कूपम्। क्रिविरिति कूपनामसु पठितम्। (निघं०३.२३) (यथा) येन प्रकारेण (वाजयन्तः) जलं चालयन्तो वायवः (शतक्रतुम्) शतमसंख्याताः क्रतवः कर्म्माणि यस्मात्तम् (मंहिष्ठम्) अतिशयेन महान्तम् (सिञ्च) (इन्दुभिः) जलैः॥१॥
भावार्थः - अत्रोपमालङ्कारः। यथा मनुष्याः पूर्वं कूपं खनित्वा तज्जलेन स्नानपानक्षेत्रवाटिकादिसिञ्चनादि व्यवहारं कृत्वा सुखिनो भवन्ति, तथैव विद्वांसो यथावत् कलायन्त्रेष्वऽग्निं योजयित्वा तत्सम्बन्धेन जलं स्थापयित्वा चालनेन बहूनि कार्य्याणि कृत्वा सुखिनो भवन्ति॥१॥
इस भाष्य को एडिट करें