Loading...
ऋग्वेद मण्डल - 1 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 34/ मन्त्र 1
    ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - अश्विनौ छन्दः - विराड्जगती स्वरः - निषादः

    त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥

    स्वर सहित पद पाठ

    त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । नवेदसा । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ । यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥


    स्वर रहित मन्त्र

    त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना । युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥

    स्वर रहित पद पाठ

    त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । विभुः । वाम् । यामः । उत । रातिः । अश्विना । युवोः । हि । यन्त्रम् । हिम्याइव । वाससः । अभिआयंसेन्या । भवतम् । मनीषिभिः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 34; मन्त्र » 1
    अष्टक » 1; अध्याय » 3; वर्ग » 4; मन्त्र » 1

    अन्वयः - तत्रादिमेन मंत्रेणाश्विदृष्टान्तेन शिल्पिगुणा उपदिश्यतन्ते।

    पदार्थः -
    हे परस्परमुपकारिणावभ्यायंसेन्या नवेदसावश्विनौ युवां मनीषिभिः सह दिनैः सह सखायौ शिल्पिना हिभ्या इव नोऽस्माकमद्यास्मिन्वर्त्तमानेऽह्वि शिल्पकार्यसाधकौ भवतं हि यतो वयं युवोः सकाशाद् यन्त्रं संसाध्य यानसमूहं चालयेम येन नोऽस्माकं वाससो रातिः प्राप्येत उतापि वां युवयोः सकाशाद्विभुर्यामो रथश्च प्राप्तः सन्नस्मान्देशान्तरं सुखेन त्रिस्त्रिवारं गमयेदतो युष्मत्संगं कुर्याम ॥१॥

    भावार्थः - अत्रोपमालङ्कारः। मनुष्यैर्यथा रात्रिदिवसयोः क्रमेण संगतिर्वर्त्तते तथैव यंत्रकलानां क्रमेण संगतिः कार्या यथा विद्वांसः पृथिवीविकाराणां यानकलाकीलयंत्रादिकं रचयित्वा तेषां भ्रामणेन तत्र जलाग्न्यादिसंप्रयोगेण भूसमुद्राकाशगमनार्थानि यानानि साध्नुवन्ति तथैव मयापि साधनीयानि नैवैतद्विद्यया विना दारिद्र्यक्षयः श्रीवृद्धिश्च कस्यापि संभवति तस्मादेतद्विद्यायां सर्वैर्मनुष्यैरत्यन्तः प्रयत्नः कर्तव्यः यथा मनुष्या हेमन्तर्तौ शरीरे वस्त्राणि संबध्नन्ति तथैव सर्वतः कीलयन्त्रकलादिभिः यानानि संबंधनीयानीति ॥१॥

    इस भाष्य को एडिट करें
    Top