Loading...
ऋग्वेद मण्डल - 1 के सूक्त 88 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 88/ मन्त्र 1
    ऋषिः - गोतमो राहूगणः देवता - मरुतः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः। आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥

    स्वर सहित पद पाठ

    आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः । आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥


    स्वर रहित मन्त्र

    आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः। आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥

    स्वर रहित पद पाठ

    आ। विद्युन्मत्ऽभिः। मरुतः। सुऽअर्कैः। रथेभिः। यात। ऋष्टिमत्ऽभिः। अश्वऽपर्णैः। आ। वर्षिष्ठया। नः। इषा। वयः। न। पप्तत। सुऽमायाः ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 88; मन्त्र » 1
    अष्टक » 1; अध्याय » 6; वर्ग » 14; मन्त्र » 1

    अन्वयः - हे सुमाया मरुतः सभाध्यक्षप्रजापुरुषा ! यूयं नोऽस्माकं वर्षिष्ठयेषा पूर्णैः स्वर्कैर्ऋष्टिमद्भिरश्वपर्णैर्विद्युन्मद्भी रथेभिर्वयो न पप्ततापप्तत यातायात ॥ १ ॥

    पदार्थः -
    (आ) अभितः (विद्युन्मद्भिः) तारयन्त्रादिसंबद्धा विद्युतो विद्यन्ते येषु तैः (मरुतः) सभाध्यक्षप्रजा मनुष्याः (स्वर्कैः) शोभना अर्का मन्त्रा विचारा वा देवा विद्वांसो येषु तैः। (रथेभिः) विमानादिभिर्यानैः (यात) गच्छत (ऋष्टिमद्भिः) कलाभ्रामणार्थयष्टिशस्त्रास्त्रादियुक्तैः (अश्वपर्णैः) अग्न्यादीनामश्वानां पतनैः सह वर्त्तमानैः (आ) समन्तात् (वर्षिष्ठया) अतिशयेन वृद्धया (नः) अस्माकम् (इषा) उत्तमान्नादिसमूहेन (वयः) पक्षिणः (न) इव (पप्तत) उत्पतत (सुमायाः) शोभना माया प्रज्ञा येषाम्, तत्सम्बुद्धौ ॥ १ ॥

    भावार्थः - अत्रोपमालङ्कारः। मनुष्यैर्यथा पक्षिण उपर्यधः सङ्गत्याऽभीष्टं देशान्तरं सुखेन गच्छन्त्यागच्छन्ति तथैव सुसाधितैस्तडित्तारयन्त्रैर्विमानादिभिर्यानैरुपर्यधः समागमनेनाभीष्टान् समाचरान् वा देशान् सुखेन गत्वागत्य स्वकार्य्याणि संसाध्य सततं सुखयितव्यम् ॥ १ ॥

    इस भाष्य को एडिट करें
    Top