Loading...
ऋग्वेद मण्डल - 2 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 11/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नाम्। इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर॑न्तः॥

    स्वर सहित पद पाठ

    श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् । इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥


    स्वर रहित मन्त्र

    श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम्। इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः॥

    स्वर रहित पद पाठ

    श्रुधि। हवम्। इन्द्र। मा। रिषण्यः। स्याम। ते। दावने। वसूनाम्। इमाः। हि। त्वाम्। ऊर्जः। वर्धयन्ति। वसुऽयवः। सिन्धवः। न। क्षरन्तः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 11; मन्त्र » 1
    अष्टक » 2; अध्याय » 6; वर्ग » 3; मन्त्र » 1

    अन्वयः - हे इन्द्र यं त्वां वसूनां हीमा ऊर्जो वसूयवश्च क्षरन्तः सिन्धवो न वर्द्धयन्ति यस्य ते दावने वयं स्याम स त्वमस्मान् मा रिषण्यो हवञ्च श्रुधि ॥१॥

    पदार्थः -
    (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (हवम्) शास्त्रबोधजन्यं शब्दम् (इन्द्र) विद्युदिव वर्त्तमान (मा) निषेधे (रिषण्यः) हिंस्या (स्याम) भवेम (ते) तव (दावने) दानाय (वसूनाम्) प्रथमकल्पानां विदुषां पृथिव्यादीनां वा (इमाः) वक्ष्यमाणाः (हि) खलु (त्वाम्) (ऊर्जः) पराक्रमा अन्नादयो वा (वर्द्धयन्ति) (वसूयवः) आत्मनो वसूनीच्छन्तः (सिन्धवः) समुद्राः (न) इव (क्षरन्तः) ॥१॥

    भावार्थः - अत्रोपमालङ्कारः। यथा समुद्रः जलेन सर्वं वर्द्धयन्ति तथा प्रधानैः पुरुषैः स्वाश्रिताः सर्वे दानेन मानेन च वर्द्धनीयाः ॥१॥

    इस भाष्य को एडिट करें
    Top