ऋग्वेद - मण्डल 4/ सूक्त 10/ मन्त्र 8
शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे। सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥८॥
स्वर सहित पद पाठशि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ । सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑म् ॥
स्वर रहित मन्त्र
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे। सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥
स्वर रहित पद पाठशिवा। नः। सख्या। सन्तु। भ्रात्रा। अग्ने। देवेषु। युष्मे इति। सा। नः। नाभिः। सदने। सस्मिन्। ऊधन्॥८॥
ऋग्वेद - मण्डल » 4; सूक्त » 10; मन्त्र » 8
अष्टक » 3; अध्याय » 5; वर्ग » 10; मन्त्र » 8
अष्टक » 3; अध्याय » 5; वर्ग » 10; मन्त्र » 8
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अग्ने ! या ते नाभिरिव शिवा नीतिः सस्मिन्नूधन् सदने वर्त्तते सा नः देवेषु युष्मे प्रवर्त्तयतु। ये सख्या भ्रात्रा सह वर्त्तमाना इव नो रक्षकाः सन्तु तेषु त्वं विश्वसिहि ॥८॥
पदार्थः -
(शिवा) मङ्गलकारिणी (नः) अस्माकम् (सख्या) मित्रेण (सन्तु) (भ्रात्रा) बन्धुनेव वर्त्तमानेन (अग्ने) पावकवत्पवित्राचरण (देवेषु) विद्वत्सु दिव्यगुणेषु वा (युष्मे) युष्मान् (सा) (नः) अस्माकम् (नाभिः) मध्याङ्गम् (सदने) सीदन्ति यस्मिँस्तस्मिन् राज्ये (सस्मिन्) सर्वस्मिन्। अत्र छान्दसो वर्णलोपो वेति वलोपः (ऊधन्) आढ्ये धनाढ्ये ॥८॥
भावार्थः - ये राजपुरुषा परस्मिन् मैत्रीं कृत्वा प्रजासु पितृवद्वर्त्तन्ते तैः सह यो राजनीतिं प्रचारयति स एव सर्वदा राज्यं भोक्तुमर्हतीति ॥८॥ अत्राऽग्निराजाऽमात्यप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥८॥ इति चतुर्थमण्डले दशमं सूक्तं प्रथमोऽनुवाकस्तृतीयेऽष्टके पञ्चमेऽध्याये दशमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें