ऋग्वेद - मण्डल 4/ सूक्त 40/ मन्त्र 5
हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥५॥
स्वर सहित पद पाठहं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् । नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥
स्वर रहित मन्त्र
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥५॥
स्वर रहित पद पाठहंसः। शुचिऽसत्। वसुः। अन्तरिक्षऽसत्। होता। वेदिऽसत्। अतिथिः। दुरोणऽसत्। नृऽसत्। वरऽसत्। ऋतऽसत्। व्योमऽसत्। अप्ऽजाः। गोऽजाः। ऋतऽजाः। अद्रिऽजाः। ऋतम् ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 40; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्नृषद्वरसद् व्योमसदृतसदब्जा गोजा ऋतजा अद्रिजा हंस ऋतमाचरति स एव जगदीश्वरप्रियो भवति ॥५॥
पदार्थः -
(हंसः) यो हन्ति पापानि सः (शुचिषत्) यः शुचिषु पवित्रेषु सीदति (वसुः) यः शरीरादिषु वसति (अन्तरिक्षसत्) योऽन्तरिक्ष आकाशे वा सीदति (होता) दाता आदाता वा (वेदिषत्) यो वेद्यां सीदति (अतिथिः) अनियततिथिः (दुरोणसत्) यो दुरोणे गृहे सीदति (नृषत्) यो नरेषु सीदति (वरसत्) यो वरेषु श्रेष्ठेषु सीदति (ऋतसत्) यः सत्ये सीदति (व्योमसत्) यो व्योम्नि सीदति (अब्जाः) योऽद्भ्यो जातः (गोजाः) यो गोषु पृथिव्यादिषु जातः (ऋतजाः) यः सत्याज्जातः (अद्रिजाः) योऽद्रेर्मेघाज्जातः (ऋतम्) ॥५॥
भावार्थः - ये जीवाः शुभगुणकर्मस्वभावा ईश्वराज्ञानुकूला वर्त्तन्ते त एव परमेश्वरेण सहाऽऽनन्दं भुञ्जत इति ॥५॥ अत्र राजप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥५॥ इति चत्वारिंशत्तमं सूक्तं चतुर्दशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें