Loading...
ऋग्वेद मण्डल - 5 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 29/ मन्त्र 1
    ऋषिः - विश्वावारात्रेयी देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त। अर्च॑न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ॥१॥

    स्वर सहित पद पाठ

    त्री । अ॒र्य॒मा । मनु॑षः । दे॒वऽता॑ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । अर्च॑न्ति । त्वा॒ । म॒रुतः॑ । पू॒तऽद॑क्षाः । त्वम् । ए॒षा॒म् । ऋषिः॑ । इ॒न्द्र॒ । अ॒सि॒ । धीरः॑ ॥


    स्वर रहित मन्त्र

    त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त। अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥१॥

    स्वर रहित पद पाठ

    त्री। अर्यमा। मनुषः। देवऽताता। त्री। रोचना। दिव्या। धारयन्त। अर्चन्ति। त्वा। मरुतः। पूतऽदक्षाः। त्वम्। एषाम्। ऋषिः। इन्द्र। असि। धीरः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 29; मन्त्र » 1
    अष्टक » 4; अध्याय » 1; वर्ग » 23; मन्त्र » 1

    अन्वयः - हे इन्द्र राजन् ! ये मनुषो देवताता दिव्या त्री रोचना धारयन्ताऽर्यमा त्री सुखानि धरति ये पूतदक्षा मरुतस्त्वार्चन्त्येषां त्वमृषिर्धीरोऽसि ॥१॥

    पदार्थः -
    (त्री) त्रीणि (अर्यमा) व्यवस्थापकः (मनुषः) मनुष्याः (देवताता) विद्वत्कर्त्तव्ये व्यवहारे (त्री) त्रीणि (रोचना) प्रकाशकानि (दिव्या) दिव्यानि (धारयन्त) (अर्चन्ति) सत्कुर्वन्ति (त्वा) त्वाम् (मरुतः) मनुष्याः (पूतदक्षाः) पवित्रबलाः (त्वम्) (एषाम्) (ऋषिः) मन्त्रार्थवेत्ता (इन्द्र) परमैश्वर्य्ययोजक (असि) (धीरः) ॥१॥

    भावार्थः - ये त्रीणि कर्मोपासनाज्ञानानि धृत्वा पवित्रा जायन्ते त एव बलवतो भूत्वा सत्कृता भवन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top