ऋग्वेद - मण्डल 6/ सूक्त 68/ मन्त्र 11
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम्। इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥११॥
स्वर सहित पद पाठइन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् । इ॒दम् । वा॒म् । अन्धः॑ । परि॑ऽसिक्तम् । अ॒स्मे इति॑ । आ॒ऽसद्य । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥
स्वर रहित मन्त्र
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम्। इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥११॥
स्वर रहित पद पाठइन्द्रावरुणा। मधुमत्ऽतमस्य। वृष्णः। सोमस्य। वृषणा। आ। वृषेथाम्। इदम्। वाम्। अन्धः। परिऽसिक्तम्। अस्मे इति। आऽसद्य। अस्मिन्। बर्हिषि। मादयेथाम् ॥११॥
ऋग्वेद - मण्डल » 6; सूक्त » 68; मन्त्र » 11
अष्टक » 5; अध्याय » 1; वर्ग » 12; मन्त्र » 6
अष्टक » 5; अध्याय » 1; वर्ग » 12; मन्त्र » 6
विषयः - पुनस्तौ किं कृत्वा किं कारयेतामित्याह ॥
अन्वयः - हे इन्द्रावरुणेव वृषणा ! युवां मधुमत्तमस्य वृष्णः सोमस्य सेवनेना वृषेथां ययोर्वामिदं परिषिक्तमन्धोऽस्ति तौ युवामस्मे अस्मिन् बर्हिष्यासद्याऽस्मान् मादयेथाम् ॥११॥
पदार्थः -
(इन्द्रावरुणा) विद्युद्वायुवद्वर्त्तमानौ राजप्रजाजनौ (मधुमत्तमस्य) अतिशयेन मधुरादिगुणयुक्तस्य (वृष्णः) बलकरस्य (सोमस्य) महौषधिरसस्य (वृषणा) बलिष्ठौ (आ) (वृषेथाम्) बलिष्ठौ भवेथाम् (इदम्) (वाम्) (अन्धः) अन्नम् (परिषिक्तम्) सर्वतः सिक्तम् (अस्मे) अस्मास्वस्मान् वा (आसद्य) उपविश्य (अस्मिन्) (बर्हिषि) अवकाशे (मादयेथाम्) आनन्दयतम् ॥११॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये सोमलतादिरसेन युक्तेनान्नेन पानेन वा स्वयमानन्द्याऽस्मानानन्दयन्ति त एव सर्वैः सत्कर्त्तव्या जायन्त इति ॥११॥ अस्मिन् सूक्ते इन्द्रावरुणवद्राजप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टषष्टितमं सूक्तं द्वादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें