Loading...
ऋग्वेद मण्डल - 7 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 33/ मन्त्र 1
    ऋषिः - वसिष्ठपुत्राः देवता - त एव छन्दः - त्रिष्टुप् स्वरः - धैवतः

    श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः। उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥१॥

    स्वर सहित पद पाठ

    श्वि॒त्यञ्चः॑ । मा । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः । उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥


    स्वर रहित मन्त्र

    श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः। उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥१॥

    स्वर रहित पद पाठ

    श्वित्यञ्चः। मा। दक्षिणतःऽकपर्दाः। धियम्ऽजिन्वासः। अभि। हि। प्रऽमन्दुः। उत्ऽतिष्ठन्। वोचे। परि। बर्हिषः। नॄन्। न। मे। दूरात्। अवितवे। वसिष्ठाः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 33; मन्त्र » 1
    अष्टक » 5; अध्याय » 3; वर्ग » 22; मन्त्र » 1

    अन्वयः - ये श्वित्यञ्चो दक्षिणतस्कपर्दाधियं जिन्वासो वसिष्ठा हि मा अभि प्रमन्दुर्मे ममाऽवितवे दूरादागच्छेयुस्तान् बर्हिषो नॄन्नुत्तिष्ठन् परि वोचे ॥१॥

    पदार्थः -
    (श्वित्यञ्चः) ये श्वितिं वृद्धिमञ्चन्ति प्राप्नुवन्ति ते (मा) माम् (दक्षिणतस्कपर्दाः) दक्षिणतः कपर्दा जटाजूटा येषां ब्रह्मचारिणां ते (धियम्) प्रज्ञाम् (जिन्वासः) प्राप्नुवन्तः (अभि) (हि) (प्रमन्दुः) प्रकृष्टमानन्दमाप्नुवन्ति (उत्तिष्ठन्) उद्यमाय प्रवर्त्तमानः (वोचे) वदामि (परि) सर्वतः (बर्हिषः) विद्यावर्धकान् (नॄन्) नायकान् (न) इव (मे) मम (दूरात्) (अवितवे) अवितुम् (वसिष्ठाः) अतिशयेन विद्यासु वसन्तः ॥१॥

    भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! ये विद्यासु प्रवीणा मनुष्याणां सत्याचारे बुद्धिवर्धका अध्यापकाः अध्येतार उपदेशकाश्च स्युस्तान् प्रविद्याधर्मप्रचाराय सततं शिक्षोत्साहसत्कारान् कुर्य्युः ॥१॥

    इस भाष्य को एडिट करें
    Top