Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 4/ मन्त्र 1
सूक्त - सिन्धुद्वीपम्
देवता - अपांनपात् सोम आपश्च देवताः
छन्दः - गायत्री
सूक्तम् - जल चिकित्सा सूक्त
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम्। पृ॑ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥
स्वर सहित पद पाठअ॒म्वयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।पृ॒ञ्च॒तीः । मधु॑ना । पय॑: ॥
स्वर रहित मन्त्र
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्। पृञ्चतीर्मधुना पयः ॥
स्वर रहित पद पाठअम्वयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।पृञ्चतीः । मधुना । पय: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 4; मन्त्र » 1
विषय - परस्पर उपकार के लिये उपदेश।
पदार्थ -
(अम्बयः) पाने योग्य माताएँ और (जामयः) मिलकर भोजन करने हारी, बहिनें [वा कुलस्त्रियाँ] (मधुना) मधु के साथ (पयः) दूध को (पृञ्चतीः) मिलाती हुई (अध्वरीयताम्) हिंसा न करने हारे यजमानों के (अध्वभिः) सन्मार्गों से (यन्ति) चलती हैं ॥१॥
भावार्थ - जो पुरुष, पुत्रों के लिये माताओं के समान और भाइयों के लिये बहिनों के समान हितकारी होते हैं, वे सन्मार्गों से आप चलते और सबको चलाते हैं ॥१॥
टिप्पणी -
१−अम्बयः। सर्वधातुभ्य इन्। उ० ४।११९। इति अम्ब गतौ-इन्। प्रापणीया मातरः। मातृभूता आपः। अम्बाशब्दवद् अम्बिशब्दो वेदे मातृवाची। यथा। अम्बितमे नदीतमे। ऋ० २।४१।१६। अम्बे अम्बिकेऽम्बालिके। य० ३४।१८। यन्ति। इण् गतौ-लट् गच्छन्ति। अध्वभिः। अत्ति, गमनेन बलं नाशयति स अध्वा। अदेर्ध च। उ० ४।११६। इति अद भक्षणे-क्वनिप्, पृषोदरादित्वात् दस्य धः। यद्वा। अत सातत्यगमने-क्वनिप्, तकारस्य धः। सन्मार्गैः। जामयः। वसिवपियजिराजि०। उ० ४।१२५ जम भक्षणे-इञ्। जमन्ति, संगत्य भोजनं कुर्वन्ति ताः। कुलस्त्रियः। भगिन्यः। भगिनीवत् सहायभूताः पुरुषाः। अध्वरि-यताम्। अध्वानं सत्पथं रातीति। अध्वन्+रा-दानग्रहणयोः-क। यद्वा। न ध्वरति कुटिलीकरोति हिनस्तीति वा। न+ध्वृ कुटिलीकरणे, हिंसने च-अच्। अध्वर इति यज्ञनाम ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधः−निरु० १।८। सुप आत्मनः क्यच्। पा० ३।१।८। इति अध्वर+क्यच्। शतृ। क्यचि च। पा० ७।४।३३। अकारस्य ईत्वम्। सन्मार्गदातारं कौटिल्यरहितं वा यज्ञमिच्छतां यजमानानाम्। पृञ्चतीः। पृची सम्पर्के-शतृ। ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। पृञ्चत्यः। संयोजयन्त्यः। मधुना। फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च। उ० १।१८। इति मन ज्ञाने-उ। धश्चान्तादेशः। रसभेदेन। मधुरगुणेन। पयः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पीङ् पाने-असुन्। दुग्धम्, रसम् ॥