Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 16
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः छन्दः - भूरिक् आर्ची पङ्क्ति,भूरिक् त्रिष्टुप्, स्वरः - धैवतः, पञ्चम
    6

    वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम्। व्यन्तु॒ वयो॒क्तꣳ रिहा॑णा म॒रुतां॒ पृष॑तीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह। च॒क्षु॒ष्पाऽअ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि॥१६॥

    स्वर सहित पद पाठ

    वसु॑भ्य॒ इति॒ वसु॑ऽभ्यः। त्वा॒। रु॒द्रेभ्यः॑। त्वा॒। आ॒दि॒त्येभ्यः॑। त्वा॒। सम्। जा॒ना॒था॒म्। द्या॒वा॒पृथि॒वी॒ऽ इति॑ द्यावाऽपृथिवी। मि॒त्रावरु॑णौ। त्वा॒। वृष्ट्या॑। अ॒व॒ता॒म्। व्यन्तु॑। वयः॑। अ॒क्तम्। रिहा॑णाः। म॒रुता॑म्। पृष॑तीः। ग॒च्छ॒। व॒शा। पृश्निः॑। भू॒त्वा। दिव॑म्। ग॒च्छ॒। ततः॑। नः। वृष्टि॑म्। आ॑। व॒ह॒। च॒क्षु॒ष्पाः। अ॒ग्ने॒। अ॒सि॒। चक्षुः॑। मे॒। पा॒हि॒ ॥१६॥


    स्वर रहित मन्त्र

    वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वा सञ्जानाथान्द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम् । व्यन्तु वयोक्तँ रिहाणाः मरुताम्पृषतीर्गच्छ वशा पृश्निर्भूत्वा दिवङ्गच्छ ततो नो वृष्टिमावह । चक्षुष्पाऽअग्नेऽसि चक्षुर्मे पाहि ॥


    स्वर रहित पद पाठ

    वसुभ्य इति वसुऽभ्यः। त्वा। रुद्रेभ्यः। त्वा। आदित्येभ्यः। त्वा। सम्। जानाथाम्। द्यावापृथिवीऽ इति द्यावाऽपृथिवी। मित्रावरुणौ। त्वा। वृष्ट्या। अवताम्। व्यन्तु। वयः। अक्तम्। रिहाणाः। मरुताम्। पृषतीः। गच्छ। वशा। पृश्निः। भूत्वा। दिवम्। गच्छ। ततः। नः। वृष्टिम्। आ। वह। चक्षुष्पाः। अग्ने। असि। चक्षुः। मे। पाहि॥१६॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 16
    Acknowledgment

    सपदार्थान्वयः -

    वयं वसुभ्यः अग्न्यादिभ्योऽष्टभ्यः त्वा तं (तं) पूर्वोक्तं यज्ञं रुद्रेभ्यः पूर्वोक्तेभ्य एकादशभ्यः त्वा=तम् आदित्येभ्यो द्वादशभ्यो मासेभ्यः त्वा=तं (तम्) क्रिया-समूह नित्यं प्रोहामःयज्ञेनेमे द्यावापृथिवी सूर्यप्रकाशो भूमिश्च सम्+जानाथां सम्यग् जानीतः प्रादुर्भूतविद्यासाधिके भवतः ।

    मित्रावरुणौ यः सर्वप्राणो बहिःस्थो वायुर्वरुणोऽन्तस्य उदानो वायुश्च तौ वृष्ट्या शुद्धजलवर्षणेन त्वा= तमिमं संसारं द्यावापृथिवीस्थमवताम्=अवतो रक्षतः ।

     यथा वयः=पक्षिणः पक्षिण इव गायत्र्यादीनि छन्दांसि अक्तम्=व्यक्तं स्थानं प्रकटं वस्तु सुखं वा व्यन्तु=व्यन्ति=गच्छन्ति (व्यन्ति) प्राप्नुवन्ति,= तथा रिहाणाः अर्चका वयं छन्दोभिः तं यज्ञं नित्य- मनुतिष्ठामः

    यज्ञे कृताऽऽहुतिर्वशा कामिताहुतिः पृश्निः=अन्तरिक्षे अन्तरिक्षस्था भूत्वा भावयित्वा मरुतां वायूनां सङ्गेन दिवं सूर्यप्रकाशं गच्छ=गच्छति

    सा ततः तस्मात् नः=अस्माकं वृष्टिं जलसमूहम् आ+वह=समन्ताद् वर्षयति वहति प्रापयति ।

    तज्जलं पृषतीः नाडीर्नदीर्वा पृषन्ति' सिञ्चन्ति याभिर्नाडिभिर्नदीभिर्यास्ताः [गच्छ]=गच्छति

    यतोऽवयम् [अग्ने]=अग्निः अग्निर्भौतिक: चक्षुष्पाः चक्षुदर्शनं रक्षतीति स: असि=अस्ति भवति, अतो मे= मम चक्षुः ब्राह्ममाभ्यन्तरं विज्ञानं तत्साधनं वा पाहि=पाति (पाति) रक्षति ॥ २। १६ ॥

    पदार्थः -

    (वसुभ्यः) अग्न्यादिभ्योऽष्टभ्यः (त्वा) तं पूर्वोक्तं यज्ञम् (रुद्रेभ्यः) पूर्वोक्तेभ्य एकादशभ्यः (त्वा) तम् (आदित्येभ्यः) द्वादशभ्यो मासेभ्यः (त्वा) तं क्रियासमूहम् (सम्) सम्यगर्थे (जानाथाम्) जानीतः= प्रादुर्भूतविद्यासाधिके भवतः । अत्र व्यत्ययो लडर्थे लोट् च (द्यावापृथिवी) सूर्यप्रकाशो भूमिश्च । अत्र दिवो द्यावेति द्यावादेशः (मित्रावरुणौ) यः सर्वप्राणो बहिःस्थो वायुवरुणोऽन्तःस्थ उदानो वायुश्च तौ (त्वा) तमिमं संसारम् (वृष्ट्या) शुद्धजलवर्षणेन (अवताम्) रक्षतः (व्यन्तु) व्यन्ति प्राप्नुवन्ति । अत्र सर्वत्र लडर्थे लोट् (वयः) पक्षिण इव गायत्र्यादीनि छन्दांसि (अक्तम्) प्रकट वस्तु सुखं वा (रिहाणाः) अर्चकाः । रिहतीत्यर्चतिकर्मसु पठितम् ॥ निघं० ३ ।१४ ॥ (मरुताम्) वायूनाम् (पृषतीः) पृषन्ति' सिञ्चन्ति याभिर्नाडीभिर्नदीभिर्यास्ताः (गच्छ) गच्छति (वशा) कामिताहुतिः (पृश्निः) अन्तरिक्षस्थाः । पृश्निरिति साधारणनामसु पठितम् ॥ निघं० १ । ४ ॥ (भूत्वा) भावयित्वा । अत्रान्तर्गतो ण्यर्थः (दिवम्) सूर्यप्रकाशम् (गच्छ) गच्छति (ततः) तस्मात् (नः) अस्माकम् (वृष्टिम्) जलसमूहम् (आ) समन्तात् क्रियायोगे (वह) वहति प्रापयति (चक्षुष्पाः) चक्षुर्दर्शनं रक्षतीति सः (अग्ने) अग्निर्भौतिकः (असि) भवति । अत्र सर्वत्र पुरुषव्यत्ययः (चक्षुः) बाह्यमाभ्यन्तरं विज्ञानं तत्साधनं वा (मे) मम (पाहि) पाति रक्षति । अयं मंत्र श०१।८।३।८-१६ व्याख्यातः ॥ १६ ॥

    भावार्थः -

    [अनुवृत्तिमाह-]

    अत्र लुप्तोपमालङ्कारः॥ 'प्रोहामि' 'अपोहामी' ति पदद्वयानुवृत्तिश्च ।

     

    [यज्ञे कृताऽऽहुतिर्वशा पृश्निः=अन्तरिक्षे भूत्वा मरुतां सङ्गेन दिवं गच्छ=गच्छति, सा ततो नः=अस्माकं वृष्टिभावह=समन्ताद् वहति]

    मनुष्यैरग्नौ याऽऽहुतिः क्रियते सा वायोः सङ्गेन मेघमण्डलं गत्वा सूर्याकार्षितजलं शुद्धं भावयित्वा पुनस्तस्मात्पृथिवीमागत्यौषधी: पुष्णाति, सा वेदमन्त्रैरेव कर्त्तव्या, यतस्त स्याः फलज्ञाने नित्यं श्रद्धोत्पद्येत ।

    [यतोऽयम् [अग्ने]=अग्निश्चक्षुष्पा असि=अस्ति, अतो मे मम चक्षु: पाहि=पाति]

    अयमग्निः सूर्यरूपो भूत्वा सर्व प्रकाशयत्यतो दृष्टिव्यवहारस्य पालनं जायते ।

    [वयं वसुभ्यो रुद्रेभ्यस्त्वा=तमादित्येभ्यस्त्वा=तं नित्यं प्रोहामः]

    एतेभ्यो वस्वादिभ्यो विद्योपकारेण दुष्टानां गुणानां प्राणिनां चापोहनं=निवारणं नित्यं कर्त्तव्यम् । इदमेव सर्वेषां पूजनं सत्करणं चेति ।

    [मन्त्रसंगतिमाह]

    यत् पूर्वेण मन्त्रेणोक्तं तदनेन विशिष्टतया प्रकाशितमिति ॥ २ । १६ ॥

    भावार्थ पदार्थः -

    चक्षुष्पाः=दृष्टिव्यवहारस्य पालकः।

    विशेषः -

    परमेष्ठी प्रजापतिः । पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च=सूर्यप्रकाशः भूमिः, प्राणः, उदानश्च ॥ भुरिगार्ची पंक्तिः। पंचमः । व्यन्तुवय इत्यारभ्यान्त्यपर्यन्तस्याग्निः भौतिक: भुरिक् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top