Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 22
    ऋषिः - वामदेव ऋषिः देवता - इन्द्रो देवता छन्दः - विराट् त्रिष्टुप्, स्वरः - धैवतः
    17

    सं ब॒र्हिर॑ङ्क्ता ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम्म॒रुद्भिः। समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑॥२२॥

    स्वर सहित पद पाठ

    सम्। ब॒र्हिः। अ॒ङ्क्ता॒म्। ह॒विषा॑। घृ॒तेन॑। सम्। आ॒दि॒त्यैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। सम्। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। सम्। इन्द्रः॑। वि॒श्वदे॑वेभि॒रिति॑ वि॒श्वऽदे॑वेभिः। अ॒ङ्क्ता॒म्। दि॒व्यम्। नभः॑। ग॒च्छ॒तु॒। यत्। स्वाहा॑ ॥२२॥


    स्वर रहित मन्त्र

    सम्बर्हिरङ्क्ताँ हविषा घृतेन समादित्यैर्वसुभिः सम्मरुद्भिः । समिन्द्रो विश्वदेवेभिरङ्क्तान्दिव्यन्नभो गच्छतु यत्स्वाहा ॥


    स्वर रहित पद पाठ

    सम्। बर्हिः। अङ्क्ताम्। हविषा। घृतेन। सम्। आदित्यैः। वसुभिरिति वसुऽभिः। सम्। मरुद्भिरिति मरुत्ऽभिः। सम्। इन्द्रः। विश्वदेवेभिरिति विश्वऽदेवेभिः। अङ्क्ताम्। दिव्यम्। नभः। गच्छतु। यत्। स्वाहा॥२२॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 22
    Acknowledgment

    सपदार्थान्वयः -

    हे मनुष्य ! भवानिदं यत् यदा होतव्यं द्रव्यं हविषा होतुमर्हं शुद्धं संस्कृतं हविस्तेन घृतेन सुगन्ध्यादिगुणयुक्तेनाऽऽज्येन (सह) सह संयुक्तं कृत्वाऽऽदित्यै द्वादशभिर्मासैः वसुभिः अग्न्यारिभिरष्टभिः मरुद्भिः सह वायुविशेषैः सह [बर्हिः] बृहन्ते सर्वे पदार्था यस्मिंस्तदन्तरिक्षं सुखं सम्+अङ्क्ताम् एकीभावेन संयोजयतु।

    अयमिन्द्रः सूर्यलोको यज्ञे स्वाहा शोभनं हविर्जुहोति यया क्रियया सा यत्सुगन्ध्यादि द्रव्य-युक्तं हविः सम्+अङ्क्तां मेलनेन प्रकटं योजयति ।

    यत्सम्मिश्रितैर्विश्वदेवेभिः स्वकीयै रश्मिभिः दिव्यं दिवि प्रकाशे भवं नभो जलं सम्+गच्छतु=सम्यक् प्रकटयति मिश्रीभावेन गच्छति ॥ २ । २२ ॥

    पदार्थः -

    (सम्) एकीभावे क्रियायोगे (बर्हिः) बृहन्ते सर्वे पदार्था यस्मिन् तदन्तरिक्षम् । बर्हिरित्यन्तरिक्षनामसु पठितम् ॥ निघं॰ १ ॥ ३॥ (अङ्काम्) संयोजयतु (हविषा) होतुमर्हं शुद्धं संस्कृतं हविस्तेन (घृतेन) सुगन्ध्यादिगुणयुक्तेनाज्येन सह (सम्) संयोगार्थे (आदित्यैः) द्वादशभिर्मासैः (वसुभिः) अग्न्यादिभिरष्टभिः (सम्) मिश्रीभावे (मरुद्भिः) वायुविशेषैः सह (सम्) मेलने (इन्द्रः) सूर्यलोकः (विश्वदेवेभिः) स्वकीयै रश्मिभिः । रश्मयो ह्यस्य विश्वदेवाः ॥ श० ३ । ७ । ३ । ६ ॥ (अङ्काम्) प्रकटं संयोजयति (दिव्यम्) दिवि प्रकाशे भवम् । द्युप्रागपागुदक्प्रतीचो यत् । अ ४ । २ । १०१ ॥ इति शैषिको यत् (नभः) जलम् । नभ इत्युदकनामसु पठितम् ॥ निघं० १ । १२ ॥ (गच्छतु) गच्छति (यत्) सदा (स्वाहा) शोभनं हविर्जुहोति यया क्रियया सा ॥ अयं मंत्रः श० १ । ९ । २–-३१ व्याख्यातः ॥ २२ ॥

    भावार्थः -

    [हे मनुष्य ! भवा निदं.....होतव्यं द्रव्यं हविषा घृतेन सह संयुक्तं कृत्वाऽऽदित्यैर्वसुभिर्मरुद्भिः सह [बर्हिः ] सुखं समङ्क्ताम् विश्वदेवेभिर्दिव्यं नभः संगच्छतु]

    यज्ञे संशोधितं यद्धविरग्नौ प्रक्षिप्यते तदन्तरिक्षे वायुजलसूर्यकिरणैः सह वर्तमानमितस्ततो गत्वाऽऽकाशस्थान् सर्वान् पदार्थान् दिव्याम् कृत्वा सततं प्रजाः सुखयति ।

    [तात्पर्यमाह-]

    तस्मात्—सर्वैर्मनुष्यैरुत्तमसामग्र्या श्रेष्ठैः साधनैस्त्रिविधो यज्ञो नित्यमनुष्ठेय इति ॥ २ ।२२॥

    विशेषः -

    वामदेवः ! इन्द्रः=सूर्यः ॥ विराट् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top