Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 33
    ऋषिः - वामदेव ऋषिः देवता - पितरो देवताः छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    18

    आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम्। यथे॒ह पुरु॒षोऽस॑त्॥३३॥

    स्वर सहित पद पाठ

    आ। ध॒त्त॒। पि॒त॒रः॒। गर्भ॑म्। कु॒मा॒रम्। पुष्क॑रस्रज॒मिति॒ पुष्क॑रऽस्रजम्। यथा॑। इ॒ह। पुरु॑षः। अस॑त् ॥३३॥


    स्वर रहित मन्त्र

    आधत्त पितरो गर्भङ्कुमारम्पुष्करस्रजम् । यथेह पुरुषो सत् ॥


    स्वर रहित पद पाठ

    आ। धत्त। पितरः। गर्भम्। कुमारम्। पुष्करस्रजमिति पुष्करऽस्रजम्। यथा। इह। पुरुषः। असत्॥३३॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 33
    Acknowledgment

    पदार्थः -

    (आ) समन्तात् (धत्त) धारयत (पितरः) ये पाँति विद्यान्नादिदानेन तत्संबुद्धौ(गर्भम्) गर्भमिव (कुमारम्) ब्रह्मचारिणम् (पुष्करस्रजम्) विद्याग्रहणार्था स्रग् धारिता येन तम् (यथा) येन प्रकारेण (इह) अस्मिन् संसारेऽस्मत्कुले वा (पुरुषः) विद्यापुरुषार्थयुक्तोऽयं मनुष्य: (असत्) भवेत् । लेट प्रयोगोऽयम् ॥ ३३ ॥

    सपदार्थान्वयः--हे पितरः! ये पान्ति विद्यान्नादिदानेन तत्सम्बुद्धौ ! यूयं यथा येन प्रकारेण अयं ब्रह्मचारीह अस्मिन् संसारेऽस्मत्कुले वा शरीराऽऽत्मबलं प्राप्य [पुरुषः]=पुरुषवद्, विद्यापुरुषार्थयुक्तोऽयं मनुष्यः [असत्]=भवति भवेत्, तथैव गर्भं गर्भमिव पुष्करस्रजं विद्याग्रहणार्था स्रग् धारिता येन तं कुमारम्=विद्यार्थिनं ब्रह्मचारिणम् आधत्त=धारयत समन्ताद् धारयत ॥२।३३ ॥

    भावार्थः -

    [ हे पितरो! यूयं..........गर्भं पुष्करस्रजंकुमारम्=विद्यार्थिनमाधत्त=धारयत ]

     अत्र लुप्तोपमालङ्कारः॥ईश्वर आज्ञापयति--विद्वद्भिर्विदुषीभिश्च विद्यार्थिन: कुमारा, विद्यार्थिन्यः कुमार्यश्च विद्यादानाय गर्भवद्धार्याः ।

    यथा गर्भे देहः क्रमेण वर्धते तथैव सुशिक्षयैव, तश्च सविद्यायां वर्धयितव्याः पालनीयश्च, यतो विद्यायोगेन धार्मिका: पुरुषार्थयुक्ता भूत्वा सदैव सुखयुक्ता भवेयुरित्येतत् सदैवानुष्ठेयमिति ॥२ । ३३ ॥

    विशेषः -

    वामदेवः । पितरः=विद्वांसः॥निचृद्गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top