Loading...
ऋग्वेद मण्डल - 10 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 1
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - भुरिगार्चीजगती स्वरः - निषादः

    अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥

    स्वर सहित पद पाठ

    अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् । अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥


    स्वर रहित मन्त्र

    अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥

    स्वर रहित पद पाठ

    अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् । अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥ १०.४९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 1

    भावार्थ - परमात्म्याची स्तुती करणारा शाश्वतिक सुखमय मोक्ष प्राप्त करतो. परमात्म्याच्या गुणांचे वर्णन करणाऱ्या वेदाचा परमात्मा प्रकाश करतो. त्यानुसार अध्यात्मयाजीला तो प्रेरणा देतो. नास्तिक जनांना जगात दंड देतो. ॥१॥

    इस भाष्य को एडिट करें
    Top