Loading...
ऋग्वेद मण्डल - 4 के सूक्त 45 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 45/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - अश्विनौ छन्दः - जगती स्वरः - निषादः

    ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि। पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥१॥

    स्वर सहित पद पाठ

    ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि । पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥


    स्वर रहित मन्त्र

    एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि। पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥१॥

    स्वर रहित पद पाठ

    एषः। स्यः। भानुः। उत्। इयर्ति। युज्यते। रथः। परिऽज्मा। दिवः। अस्य। सानवि। पृक्षासः। अस्मिन्। मिथुनाः। अधि। त्रयः। दृतिः। तुरीयः। मधुनः। वि। रप्शते ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 45; मन्त्र » 1
    अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 1

    भावार्थ - हे माणसांनो ! जो प्रकाशमान सूर्य ब्रह्मांडामध्ये विराजमान आहे व त्याच्या सर्व बाजूंनी भूगोलाचा संबंध आहे. पृथ्वी व चंद्रलोक बरोबरच फिरतात त्यांच्या प्रभावामुळे वृष्टी होते हे जाणा. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top