Loading...
ऋग्वेद मण्डल - 7 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥

    स्वर सहित पद पाठ

    ता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य । ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥


    स्वर रहित मन्त्र

    ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥

    स्वर रहित पद पाठ

    ता । भूरिऽपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःऽअत्येतू । रिपवे । मर्त्याय । ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःऽइता । तरेम ॥ ७.६५.३

    ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 3
    अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 3

    पदार्थः -
    (ऋतस्य) सत्यस्य (पथा) मार्गेण (मित्रावरुणा) शक्तिद्वयवान्परमात्मा सर्वस्य मित्रः सर्वस्य वरणीयश्च (वां) राजानं तथा प्रजाजनं (नावा) नौकल्पसाधनैः (नः) अस्मान् (दुरत्येतू) तारयतु अन्यच्च (भूरिपाशौ) अनन्तबलयुक्तः (अनृतस्य सेतू) सन्मर्य्यादेत्यर्थः, तद्द्वारेण तद्भक्तः विघ्नौघं तरतीत्यर्थः, इत्यत्र द्विवचनमतन्त्रम्, “बहुलं छन्दसीति” विधानात् अर्थात् छन्दसि द्विवचनस्थानेऽपि एकवचनं सम्पद्यत इत्यर्थः ॥३॥

    इस भाष्य को एडिट करें
    Top