Loading...
ऋग्वेद मण्डल - 9 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 111/ मन्त्र 1
    ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - निचृदष्टिः स्वरः - मध्यमः

    अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भि॒: सूरो॒ न स्व॒युग्व॑भिः । धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरि॑: । विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒ॠक्व॑भिः ॥

    स्वर सहित पद पाठ

    अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः । धारा॑ । सु॒तस्य॑ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ । विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तआ॑स्येभिः । ऋक्व॑ऽभिः ॥


    स्वर रहित मन्त्र

    अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभि: सूरो न स्वयुग्वभिः । धारा सुतस्य रोचते पुनानो अरुषो हरि: । विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिॠक्वभिः ॥

    स्वर रहित पद पाठ

    अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषांसि । तरति । स्वयुग्वऽभिः । सूरः । न । स्वयुग्वऽभिः । धारा । सुतस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परिऽयाति । ऋक्वऽभिः । सप्तआस्येभिः । ऋक्वऽभिः ॥ ९.१११.१

    ऋग्वेद - मण्डल » 9; सूक्त » 111; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 24; मन्त्र » 1

    पदार्थः -
    (हरिः) परपक्षहारकः  शूरः  (अरुषः)  उग्रतेजस्वी  (पुनानः) स्ववीरकर्मणा  पावयन्  (सुतस्य, धारा)  संस्कारधारया (रोचते) शोभते (हरिण्या) शत्रुहारिण्या (अया, रुचा) अनया दीप्त्या (पुनानः)पावयन्  (स्वयुग्वभिः)  स्वस्वभावशक्तिभिः  (विश्वा, द्वेषांसि) सर्वशत्रून् (तरति) समापयति (न) यथा (सूरः) सूर्य्यः (स्वयुग्वभिः)स्वशक्तिभिरन्धकारं  नाशयति एवं हि  शूरो दुष्टान्  (सप्तास्येभिः) सप्तमुखैः (ऋक्वभिः)  किरणैः (विश्वा, रूपा)  नानारूपं  दधत् यथा सूर्यः  (परियाति)  प्राप्नोति,  एवं  हि  (ऋक्वभिः)  ज्ञानेन्द्रियाणां सप्तछिद्रनिःसृततेजोभिः (यत्)  यतः शूरः परपक्षं प्राप्नोति, अत एव सप्तकिरणवता सूर्येणोपमीयते ॥१॥

    इस भाष्य को एडिट करें
    Top