ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 1
सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥
स्वर सहित पद पाठसना॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥
स्वर रहित मन्त्र
सना च सोम जेषि च पवमान महि श्रव: । अथा नो वस्यसस्कृधि ॥
स्वर रहित पद पाठसना । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥ ९.४.१
ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 1
विषयः - अथाभ्युदयाय विजयाय आत्मसुखाय च निःश्रेयसं वर्ण्यते।
पदार्थः -
(सोम) हे सौम्यस्वभावयुक्त परमात्मन् ! (महि, श्रवः) सर्वतो दातृतमः (च) तथा च (पवमान) पवित्र ! त्वं (जेषि) पापिनो जय (च) किञ्च सदा (नः) अस्मभ्यं (वस्यसः, कृधि) कल्याणं देहि (सन) नो भज ॥१॥