Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 3
    ऋषिः - शतं वैखानसाः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वत॑: । पव॑मान ऋ॒तुभि॑: कवे ॥

    स्वर सहित पद पाठ

    परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ । पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥


    स्वर रहित मन्त्र

    परि धामानि यानि ते त्वं सोमासि विश्वत: । पवमान ऋतुभि: कवे ॥

    स्वर रहित पद पाठ

    परि । धामानि । यानि । ते । त्वम् । सोम । असि । विश्वतः । पवमान । ऋतुऽभिः । कवे ॥ ९.६६.३

    ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 3
    अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 3

    पदार्थः -
    (कवे) हे सर्वज्ञ जगदीश्वर ! (पवमान) सर्वपवित्रकर्तः ! भवान् (ऋतुभिः) वसन्ताद्यृतूनां परिवर्तनेन नव्यान् भावानुत्पादयति। अथ च (यानि ते) यानि तव (धामानि) लोकलोकान्तराणि (परि) परितस्सन्ति तानि (विश्वतः) सर्वथा (त्वं सोमासि) त्वमुत्पादकोऽसि ॥३॥

    इस भाष्य को एडिट करें
    Top