Loading...
अथर्ववेद > काण्ड 1 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 29/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - अभीवर्तमणिः, ब्रह्मणस्पतिः छन्दः - अनुष्टुप् सूक्तम् - राष्ट्र अभिवर्धन सूक्त

    अ॑भीव॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे। तेना॒स्मान्ब्र॑ह्मणस्पते॒ ऽभि रा॒ष्ट्राय॑ वर्धय ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽव॒र्तेन॑ । म॒णिना॑ । येन॑ । इन्द्र॑: । अ॒भि॒ऽव॒वृ॒धे । तेन॑ । अ॒स्मान् । ब्र॒ह्म॒ण॒: । प॒ते॒ । अ॒भि । रा॒ष्ट्राय॑ । व॒र्ध॒य॒ ॥


    स्वर रहित मन्त्र

    अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे। तेनास्मान्ब्रह्मणस्पते ऽभि राष्ट्राय वर्धय ॥

    स्वर रहित पद पाठ

    अभिऽवर्तेन । मणिना । येन । इन्द्र: । अभिऽववृधे । तेन । अस्मान् । ब्रह्मण: । पते । अभि । राष्ट्राय । वर्धय ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 29; मन्त्र » 1

    टिप्पणीः - १−अभि-वर्तेन। अकर्तरि च कारके संज्ञायाम्। पा० ३।३।१९। इति अभि+वृतु वर्तने भवने−घञ् छान्दसो दीर्घः। अभिवर्तते अभिभवति शत्रून् स अभिवर्तः। अभिभवनशीलेन, जयशीलेन। मणिना। सर्वधातुभ्य इन्। उ० ४।११८। मण कूजे−इन्। रत्नेन, प्रशंसनीयसामर्थ्येन धनेन, वा राजचिह्नेन। इन्द्रः। १।२।३। परमैश्वर्यवान् पुरुषो जीवः। अभि-ववृधे। वृधु वृद्धौ−लिट्। तुजादीनां दीर्घोऽभ्यासस्य। पा० ६।१।७। इति दीर्घः। अभितः सर्वतः प्रवृद्धो बभूव। तेन। मणिना। ब्रह्मणः+पते। १।८।४।, १।१।१। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति विसर्जनीयस्य सत्त्वम्। हे ब्रह्मणो वेदस्य विप्रस्य वा पालक परमेश्वर ! राष्ट्राय। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति राजृ दीप्तौ ऐश्वर्ये च ष्ट्रन्। राजति ऐश्वर्यकर्मा−निघ० २।२१। व्रश्चभ्रस्जसृज०। पा० ८।२।३६। इति षः। राज्यवर्धनाय वर्धय। वृधु वृद्धौ−णिच् लोट्। समर्धय, समृद्धान् कुरु ॥

    इस भाष्य को एडिट करें
    Top