Loading...
अथर्ववेद > काण्ड 1 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 32/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - द्यावापृथिवी छन्दः - अनुष्टुप् सूक्तम् - महद्ब्रह्मा सूक्त

    इ॒दं ज॒नासो॑ वि॒दथ॑ म॒हद्ब्रह्म॑ वदिष्यति। न तत्पृ॑थि॒व्यां नो॑ दि॒वि येन॑ प्रा॒णन्ति॑ वी॒रुधः॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । ज॒ना॒स॒: । वि॒दथ॑ । म॒हत् । ब्रह्म॑ । व॒दि॒ष्य॒ति॒ । न । तत् । पृ॒थि॒व्याम् । नो इति॑ । दि॒वि । येन॑ । प्रा॒णन्ति॑ । वी॒रुध॑: ॥


    स्वर रहित मन्त्र

    इदं जनासो विदथ महद्ब्रह्म वदिष्यति। न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥

    स्वर रहित पद पाठ

    इदम् । जनास: । विदथ । महत् । ब्रह्म । वदिष्यति । न । तत् । पृथिव्याम् । नो इति । दिवि । येन । प्राणन्ति । वीरुध: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 32; मन्त्र » 1

    टिप्पणीः - १−इदम्। वक्ष्यमाणम्। जनासः। १८।१। आज्जसेरसुक्। पा० ७।१।५०। इति जसि असुक्। हे जनाः, विद्वांसः। विदथ। विद ज्ञाने अदादिः−लट् मध्यमबहुवचनं छन्दसि शः। यूयं वित्थ, जानीथ। महत्। १।१०।४। पूजनीयम् ब्रह्म। १।८।४। परब्रह्म, परमात्मानम्, परमकारणम्। वदिष्यति। वद वाक्ये−लृट्। कथयिष्यति। न। निषेधे। तत्। ब्रह्म। पृथिव्याम्। १।२।१। प्रख्यातायां भूमौ। नो इति। न−उ। नैव। दिवि। १।३०।३। द्युलोके, सूर्यमण्डले। येन। ब्रह्मणा। प्राणन्ति। प्र+अन जीवने, अदादिः। जीवन्ति, श्वसन्ति। वीरुधः। विशेषेण रुणद्धि वृक्षानन्यान् सा वीरुत्। वि+रुध आवरणे−क्विप्, दीर्घश्च। अथवा। वि+रुह प्रादुर्भावे−क्विप्। न्यङ्क्वादीनां च पा० ७।३।३५। इति हस्य धः। विरोहणशीलाः। वितस्ता लतादयः। लतादिवद् विरोहिताः सृष्टिपदार्थाः ॥

    इस भाष्य को एडिट करें
    Top