Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 16
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व। परे॑णेहि नव॒तिं ना॒व्या॒ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥

    स्वर सहित पद पाठ

    परा॑क् । ते॒ । ज्योति॑: । अप॑थम् । ते॒ । अ॒र्वाक् । अ॒न्यत्र॑ । अ॒स्मत् । अ॒यना । कृ॒णु॒ष्व॒ । परे॑ण । इ॒हि॒ । न॒व॒तिम् । ना॒व्या᳡: । अति॑ । दु॒:ऽगा: । स्रो॒त्या: । मा । क्ष॒णि॒ष्ठा॒: । परा॑ । इ॒हि॒ ॥१.१६॥


    स्वर रहित मन्त्र

    पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व। परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥

    स्वर रहित पद पाठ

    पराक् । ते । ज्योति: । अपथम् । ते । अर्वाक् । अन्यत्र । अस्मत् । अयना । कृणुष्व । परेण । इहि । नवतिम् । नाव्या: । अति । दु:ऽगा: । स्रोत्या: । मा । क्षणिष्ठा: । परा । इहि ॥१.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 16

    टिप्पणीः - १६−(पराक्) अभिमुखम् (ते) तुभ्यम् (ज्योतिः) प्रकाशः (अपथम्) पथो विभाषा। पा० ५।४।७२। नञ्+पथिन्-अ प्रत्ययः। अपथं नपुंसकम्। पा० २।४।३०। इति नपुंसकम्। मार्गाभावः। कुमार्गः (ते) तुभ्यम् (अर्वाक्) अवरदेशे (अन्यत्र) (अस्मत्) (अयना) मार्गान् (कृणुष्व) कुरु (परेण) यथा (इहि) गच्छ (नवतिम्) बह्वीः-इत्यर्थः (नाव्याः) अ० ८।५।९। नौभिस्तार्याः (अति) अतीत्य (दुर्गाः) दुर्गमनीयाः (स्रोत्याः) अ० १।३२।३। जलप्रवाहाः (मा क्षणिष्ठाः) क्षणु हिंसायाम्−लुङ्। मा हिंसीः (परा इहि) दूरं गच्छ ॥

    इस भाष्य को एडिट करें
    Top