अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 28
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - त्रिपदा गायत्री
सूक्तम् - कृत्यादूषण सूक्त
ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑। यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥
स्वर सहित पद पाठए॒तत् । हि । शृ॒णु । मे॒ । वच॑: । अथ॑ । इ॒हि॒ । यत॑: । आ॒ऽइ॒यथ॑ । य: । त्वा॒ । च॒कार॑ । तम् । प्रति॑ ॥१.२८॥
स्वर रहित मन्त्र
एतद्धि शृणु मे वचोऽथेहि यत एयथ। यस्त्वा चकार तं प्रति ॥
स्वर रहित पद पाठएतत् । हि । शृणु । मे । वच: । अथ । इहि । यत: । आऽइयथ । य: । त्वा । चकार । तम् । प्रति ॥१.२८॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(एतत्) इदं निर्णयसूचकम् (हि) अवश्यम् (शृणु) (मे) मम (वचः) वचनम् (अथ) तदा (इहि) गच्छ (यतः) यस्मात् स्थानात् (एयथ) आङ्+इण् गतौ-लिट्। एयेथ। आगतवती त्वम् (यः त्वा, चकार, तम् प्रति) ॥
इस भाष्य को एडिट करें