Loading...
अथर्ववेद > काण्ड 20 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५१

    अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे। यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव शिक्षति ॥

    स्वर सहित पद पाठ

    अ॒भि । प्र । व॒: । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ॥ य: । ज॒रि॒तृभ्य॑: । म॒घऽवा॑ । पु॒रु॒ऽवसु॑: । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥५१.१॥


    स्वर रहित मन्त्र

    अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे। यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥

    स्वर रहित पद पाठ

    अभि । प्र । व: । सुऽराधसम् । इन्द्रम् । अर्च । यथा । विदे ॥ य: । जरितृभ्य: । मघऽवा । पुरुऽवसु: । सहस्रेणऽइव । शिक्षति ॥५१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 1

    टिप्पणीः - मन्त्र १, २ ऋग्वेद में है-८।४९।१, २ [सायणभाष्य, परिशिष्ट, बालखिल्य १।१, २]। सामवेद-उ० २।१।१३ तथा मन्त्र १ पू० ३।।३ ॥ १−(अभि) सर्वतः (प्र) प्रकर्षेण (वः) वृञ् वरणे स्वीकरणे-लोडर्थे लुङ्। मन्त्रे घस०। पा० २।४।८०। च्लेर्लुक्। बहुलं छन्दस्यमाङ्योगेऽपि। पा० ६।४।७। अडभावः। वृणु। स्वीकुरु (सुराधसम्) सु शोभनानि राधांसि धनानि यस्मात् तम्। बहुधनदातारम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अर्च) पूजय (यथा) येन प्रकारेण (विदे) अ० २०।२२।४। विद्यते सः (यः) परमेश्वरः (जरितृभ्यः) स्तोतृभ्यः (मघवा) पूजनीयः (पुरूवसुः) प्रभूतधनः (सहस्रेण) बहुप्रकारेण (इव) पादपूरणः (शिक्षति) ददाति-निघ० ३।२० ॥

    इस भाष्य को एडिट करें
    Top