Loading...
अथर्ववेद > काण्ड 20 > सूक्त 52

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 52/ मन्त्र 1
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५२

    व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः। प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥

    स्वर सहित पद पाठ

    व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्त: । आप॑: । न वृ॒क्तऽब॑र्हिष: ॥ प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तार॑: । आ॒स॒ते॒ ॥५२.१॥


    स्वर रहित मन्त्र

    वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः। पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥

    स्वर रहित पद पाठ

    वयम् । घ । त्वा । सुतऽवन्त: । आप: । न वृक्तऽबर्हिष: ॥ पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतार: । आसते ॥५२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 52; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-८।३३।१-३; सामवेद उ० २।२। तृच १२ और आगे है-अथर्व० २०।७।१४-१६, तथा मन्त्र १ साम० पू० ३।७।९ ॥ १−(वयम्) उपासकाः (घ) एव (त्वा) त्वाम् (सुतवन्तः) तत्त्वस्य धारकाः (आपः) जलानि (न) यथा (वृक्तबर्हिषः) वृजी वर्जने-क्त। श्वीदितो निष्ठायाम्-इट्प्रतिषेधः। बृंहेर्नलोपश्च। उ० २।१०९। बर्ह परिभाषणहिंसाच्छादनेषु-इसि यद्वा वृक आदाने-क्त+बृहि वृद्धौ-इसि, नलोपः। त्यक्तहिंसाः। प्राप्तवृद्धयः। ऋत्विजः-निघ० ३।१८। (पवित्रस्य) शुद्धदेशस्य (प्रस्रवणेषु) निर्झरेषु (वृत्रहन्) हे शत्रुनाशक (परि) सर्वतः (स्तोतारः) स्तावकाः (परि आसते) उत्तमपुरुषस्य प्रथमपुरुषः। उपास्महे। सेवामहे ॥

    इस भाष्य को एडिट करें
    Top