ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 2
ऋषिः - विवस्वानादित्यः
देवता - हविर्धाने
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॑: । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥
स्वर सहित पद पाठय॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ । आ । सी॒द॒त॒म् । स्वम् । ऊँ॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥
स्वर रहित मन्त्र
यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्त: । आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥
स्वर रहित पद पाठयमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवऽयन्तः । आ । सीदतम् । स्वम् । ऊँ इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥ १०.१३.२
ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 2
पदार्थः -
(यमे-इव यतमाने यत्-ऐतम्) हे वधूवरौ ! युवां यथा मातुरुदराद् बहिरागमनं कुरुतो द्वे कन्ये तथा यतमानौ परस्परं बन्धनबद्धौ यतो वेद्यां प्राप्नुतम् तदा (मानुषाः देवयन्तः-वां प्रभरन्) देवं परमात्मानमिच्छन्तः-आस्तिका जनाः युवां प्रकृष्टं भरन्ति पुष्णन्ति-अनुमोदयन्ति (स्वं लोकम्-उ-आसीदतम्) विवाहानन्तरं स्वगृहं खलु समन्तात् प्राप्नुतम्, तत्र गत्वा च (विदाने स्वासस्थे) स्वात्मनि ज्ञापयन्त्यौ द्यावापृथिव्यौ सुप्रतिष्ठिते-इव प्रतिष्ठितौ (नः-इन्दवे भवतम्) अस्माकं यज्ञाय श्रेष्ठकर्मसाधनाय सहयोगिनौ भवतम् ॥२॥