Loading...
ऋग्वेद मण्डल - 10 के सूक्त 181 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 1
    ऋषिः - प्रथो वासिष्ठः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥

    स्वर सहित पद पाठ

    प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥


    स्वर रहित मन्त्र

    प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥

    स्वर रहित पद पाठ

    प्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥ १०.१८१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 1

    पदार्थः -
    (आनुष्टुभस्य यस्य हविषः-हविः) प्रथमा वाग्वेदः “वागेवासौ प्रथमाऽनुष्टुप्” [कौ० १५।३] तस्य वेदस्य स्वामी परमेश्वरस्तस्य-वेदस्वामिनः-यस्य-आदेयस्य विज्ञानस्य वेदस्य “हविः-आदेयं विज्ञानम्” [ऋ० १।१०१।८ दयानन्दः] यद् विज्ञानम् (प्रथः सप्रथः-च वसिष्ठः) वेदविज्ञाने प्रथनशीलः प्रथः अन्यं प्रथनशीलं शिष्यं सम्पादयिता स सप्रथः, एवमतिशयेन वेदवाचि कृतवासः-आदिविद्वान् ब्रह्मा (धातुः-द्युतानात् सवितुः-विष्णोः) अग्नेः “अग्निर्वै द्रष्टा धाता” [तै० ३।३।१०।२] वायोः “यो वाऽयं वायुः पवते एष द्युतानः” [श० ३।६।१।१६] सूर्यात् “असावादित्यो देवः सविता” [श० ६।३।१।१८] अङ्गिरसः, एषां सकाशात् (रथन्तरं जभार) वेदवाचम् “वाग्वै रथन्तरम्” [ऐ० ४।२८] बिभर्ति धारयति ॥१॥

    इस भाष्य को एडिट करें
    Top