Loading...

233 परिणाम मिले!

  • हतं च शत्रून्यततं च मित्रिण: प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ - Rigveda/8/35/12
  • हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्। यवान्नेददानपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥ - Atharvaveda/6/50/0/1
  • हत वृत्रं सुदानव इन्द्रेण सहसा युजा। मा नो दुःशंस ईशत॥ - Rigveda/1/23/9
  • हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥ - Atharvaveda/2/32/0/5
  • हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥ - Atharvaveda/5/23/0/12
  • हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः। दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥ - Atharvaveda/10/4/0/13
  • हतो येवाषः क्रिमीणां हतो नदनिमोत। सर्वान्नि मष्मषाकरं दृषदा खल्वाँ इव ॥ - Atharvaveda/5/23/0/8
  • हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः। हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥ - Atharvaveda/5/23/0/11
  • हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः। हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥ - Atharvaveda/2/32/0/4
  • हतो वृत्राण्यार्या हतो दासानि सत्पती। हतो विश्वा अप द्विषः ॥६॥ - Rigveda/6/60/6
  • हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥ - Rigveda/10/157/4
  • हथो वृत्राण्यार्या हथो दासानि सत्पती । हथो विश्वा अप द्विषः ॥८५५॥ - Samveda/855
  • हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः। अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या३ नामभिः स्परत् ॥ - Rigveda/1/161/5
  • हन्ता वृत्रं दक्षिणेनेन्द्र: पुरू पुरुहूतः । महान्महीभि: शचीभिः ॥ - Rigveda/8/2/32
  • हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती। कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥ - Rigveda/7/20/2
  • हन्ताहं पृथिवीमिमां नि दधानीह वेह वा । कुवित्सोमस्यापामिति ॥ - Rigveda/10/119/9
  • हन्तो नु किमाससे प्रथमं नो रथं कृधि । उपमं वाजयु श्रव: ॥ - Rigveda/8/80/5
  • हन्त्वेनान्प्र दहत्वरिर्यो नः पृतन्यति। क्रव्यादाग्निना वयं सपत्नान्प्र दहामसि ॥ - Atharvaveda/13/1/0/29
  • हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम्। स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥ - Atharvaveda/10/2/0/7
  • हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥ - Rigveda/10/95/1
  • हये देवा यूयमिदापयः स्थ ते मृळत नाधमानाय मह्यम्। मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म॥ - Rigveda/2/29/4
  • हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः। सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥ - Rigveda/5/58/8
  • हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः। सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥ - Rigveda/5/57/8
  • हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम्। नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥१॥ - Rigveda/5/46/1
  • हरयो धुमकेतवो वातजूताऽउप द्यवि । यतन्ते वृथगग्नयः ॥ - Yajurveda/33/2
  • हरयो धूमकेतवो वातजूता उप द्यवि । यतन्ते वृथगग्नय: ॥ - Rigveda/8/43/4
  • हरिं मृजन्त्यरुषो न युज्यते सं धेनुभि: कलशे सोमो अज्यते । उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रिय: ॥ - Rigveda/9/72/1
  • हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम्। अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥ - Atharvaveda/19/65/0/1
  • हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सद: । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥ - Rigveda/10/96/2
  • हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥ - Atharvaveda/20/30/0/2
  • हरि: सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् । देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥ - Rigveda/9/95/2
  • हरिक्निके किमिच्छसि ॥ - Atharvaveda/20/129/0/4
  • हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम्। स क्षेत्रियं विषाणया विषूचीनमनीनशत् ॥ - Atharvaveda/3/7/0/1
  • हरितेभ्यः स्वाहा ॥ - Atharvaveda/19/22/0/5
  • हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व । अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ - Rigveda/10/112/3
  • हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥ - Atharvaveda/9/8/0/9
  • हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत । अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥ - Rigveda/10/96/8
  • हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत। अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥ - Atharvaveda/20/31/0/3
  • हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरी । तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥६२३ - Samveda/623
  • हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन। मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये॥ - Rigveda/2/18/3
  • हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम्। वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन्॥ - Rigveda/2/11/7
  • हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥ - Rigveda/10/23/2
  • हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा । उभा रजी न केशिना पतिर्दन् ॥ - Rigveda/10/105/2
  • हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः। विद्वांश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः॥ - Rigveda/3/44/2
  • हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । आ तु न: स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥ - Rigveda/8/21/10
  • हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत। आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥ - Atharvaveda/20/62/0/4
  • हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत। आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥ - Atharvaveda/20/14/0/4
  • हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥ - Rigveda/10/74/2
  • हवं त इन्द्र महिमा व्यानड् ब्रह्म यत्पासि शवसिन्नृषीणाम्। आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हाः ॥२॥ - Rigveda/7/28/2
  • हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ। त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥२॥ - Rigveda/7/30/2
Top